SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ [अ०] २, सू०२५७-२५८. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २२१ साधनोपयोगाभावेऽपि अधिकं तदुपयोगापेक्षा बहुतरं सुन्दरत्वम् - रमणीयत्वं प्रतिपद्यते- प्राप्यते । यद्यपि कृत्रिम सौन्दर्यसाधनानामुपयोगः त्वराहेतोर्न विहितस्तथापि स्वाभाविकमेव सौन्दर्य मौत्सुक्येन सम्पन्नमिति भावः । नि[5] [1] मे [5] स [1] 4 [ ]दि [1] [5]त्र [ 1 ]ल [ ] ता [s]न [1] क [1] पो[s] ल[1]योः[s] इति लक्षण समन्वयः । अस्य नामान्तरे आह मणिभूषणं रमणीयं चेत्येक इति । केचिदिदं छन्दो मणिभूषणनाम्नाऽपरे च रमणीयमिति नाम्ना व्यवहरन्तीति भावः ॥ अ० २, सू० - २५६ ॥ नाद्गौः ||२५७|| नगणात्परे नमस्राश्चेत्तदा गौर्नाम । ननभभराः । यथा - अनुदिनमपि हन्त दुहन्ति कवीश्वराम्, त्रुटति न च यदीयसदुक्तिपयः शुचि । हृदयमुकुरमध्यमधिश्रयतां सदा, निरुपमचरितप्रथिता मम सैव गौः ।। २५७.१ ।। षोडशं प्रकारमाह- नौ द्गौ रिति । विवृणोति - नगणात्परे नभभ्राश्चेत् तदा गौर्नाम । न-व-भ-भ-राः इति । पूर्ववणितलक्षणे प्रथमं न्यसनीय रगण स्थाने नगणस्य विन्यासश्चेत्तदा गौर्नामातिशक्करीजातिच्छन्द इत्यर्थः । तथा च '।।।।।।5।।.5II.SIS. ' इतीदृशोन्यासक्रमः सिद्धयति । उदाहरतियथा- अनुदिन मपीति । हन्त इत्याश्चर्ये, कवीश्वराः - महाकवयः अनुदिनमपि प्रतिदिवसमपि दुहन्ति सदुक्तिरूपं दुग्धं निः सारयन्ति, [ तथापि ] शुचि पवित्रं यदीयसदुक्तिपयः- यस्याः सद्धचनरूपं दुग्धं न त्रुटति न विच्छिद्यते, निरुपमचरितप्रथिता - असामान्य चरित्रेण प्रख्याता सैव गौः वाक् [वागधिष्ठात्री देवता] मम - भक्तस्य हृदयमुकुरमध्यम् - अन्तः करणादर्शान्तः प्रदेशे सदा-सर्वदा अधिश्रयताम् - प्रतिष्ठिता भवतु । प्रसिद्धा गौदुह्यमानाऽल्पकालेनैव पयसा विच्छिद्यते, इयं च सर्वदा नवनवं सदुक्तिपयः प्रस्तुत इति तामहं स्वहृदय एव स्थापयितुमिच्छामिति भावः । अ [ | ]नु [] दि [ 1 ] न [1] [ 1 ] प [ 1 ]ह[5]न्त[1]दु[0]ह[5]न्ति [1]क[1]वी[s] श्व[1]राः [s] इति लक्षण समन्वयः ॥ अ० २, सू० - २५७ ।। नौ रो यौ भोगिनी ॥२५८॥ यथा- दधति तव चुलुक्यचन्द्र धात्रीं भुजेडस्मिन्, भजतु जलनिधी चिराय
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy