SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २५६.] चतुर्दशं प्रभेदमाह- नो जौ भ्रौ कल भाषणिती। नगणः-जगणद्वयम् भगण-रगणौ '.si.si.sn.sis.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् कल भाषिणीतिनामकमतिशक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथास्फुरति चेति । हे सखे ! मृदुशीतलः मन्दः शत्ययुक्तश्च दक्षिणवायु:दक्षिण दिग्पवनः स्फुरति प्रवहति च- किञ्च प्रतिदिशं सर्वासु दिक्षु केसररेणुभिः- पुष्परागः उल्लसितम्- प्रसृतम् चिकयुवतेः- कोकिलायाः पश्चमगीतयः- पञ्चमस्वरेण गानाति प्रसूताश्च- उद्भूताश्च, तदपि एतावति दुर्विषहसंयोगे सत्यपि प्रिया दयिता मयि मद्विषये कलभाषिणी मञ्जुवचना न अपि तु कठोर वचनव वर्तत इति दु.खमिति भावः अस्य नामान्तरमपीत्याह अरविन्दमित्येक इति । एके आचार्या छन्दोऽरविन्दमिति व्यवहरन्तीत्यर्थः । स्फु[1]र[1]ति[1]च[1]द[s]क्षि[1]णा[1]मा[s] रु[1] तो[s] मृ[1] []शी[s]त[1]ल:[5] इति लक्षण संगतिः ॥ अ० २, सू०२५५ ।। रानमभ्राः सुन्दरम् ॥२५६।। रगणात्परे नमभराः । यथा-निर्ममे सपदि पत्रलता न कपोलयोर, नापि यावकरसो निहितोऽघरपल्लवे। वल्लभाभिसरणोत्सुकया सुदृशानया, सुन्दरत्वमधिकं तदपि प्रतिपद्यते ॥ २५६.१॥ मणिभूषणं, रमणीयं चेत्येके ॥ २५६.१ ॥ लक्षितक्रमेण पञ्चदशं प्रभेदमाह- रानभम्राः सुन्दरमिति । विवृणोति- रगणात् परे न-भ-भ-राः। रगण नगणी भगणद्वयं रगणश्च 'sis... sI.Sin.sas.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् सुन्दरं नामातिशक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-निर्ममे सपदीति । वल्लभाभिसरणोत्सुकया- वल्लभं प्रियं प्रति अमिसरणे रमणार्थमभिमुखगमने उत्सुकया उत्कण्ठितया अनया प्रत्यक्षगोचरया सुदृशा- सुनेत्रयाऽङ्गनया सपदिझटिति कपोलयोः- गण्डस्थलयोः पत्रलता कस्तूर्यादिद्रव्यनिर्मितो रचना विशेषः न निर्ममे न रचितः, अधरपल्लवे- स्वत एव नूतनपत्रवर्णेऽधरे यावकरसः- अलक्तकद्रवः अपि न निहितः- न स्थापितः तदपि सौन्दर्य
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy