SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २५४ - २५५. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २१६ साम्यं रूपकेण निरूपितम् । सूर्योऽपि त्रिलोक्या उपकारायोदेति तेजसां च धाम भूतः, सरोरूहां निद्राभङ्गकारणञ्चेत्ययमपि; तथा भूतोदयः, तेजसां धाम, भक्तानां मोहनिद्राक्षयकरश्चेति सुसङ्गतं साम्यम् | ज [ 1 ] [ ]ति [ 1 ]ज [ 1 ]ग[5] [1] यो[s] प [ 1 ][ []ति []का [5]र [ 1 ] णो [s] [1]य: [s] इति लक्षणसङ्गतिः ॥ अ० २, सू० - २५३ ॥ 1 र्जर्जरास्तूणकम् ॥२५४॥ रजरजराः । यथा - स्फीतनव्यगन्धलुब्धषट्पदौघसेविताश्-, चैत्रमासि पश्य भान्ति चूतमञ्जरीशिखाः । ऊर्ध्वदृश्यमानकङ्कपत्रकृष्णपक्षकास्, तृणका इह वीरमन्मथेन लम्बिताः ।। २५४.१ ।। त्रयोदशं प्रकारमाह- रास्तूकणकम् इति । विवृणोति - रजरजरा इति । रगण - जगण - रगण जगण - रगणाः 'SIS.ISI.SIS. SI.SIS.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् तूणकं नामाति शकरी जातिच्छन्द इत्यर्थः । उदाहरतियथा- स्फीतेति स्फीतगन्धलुब्धषट्पदौध सेविताः- स्फीतेन वृद्धिगतेन गन्धेन सौरभेण, लुब्धैः- आकृष्टैः षट्पदौधैः - भ्रमरसमूहैः सेविताः जुष्टाः नृतमञ्जरीशिखा:- आम्रमञ्जर्यग्रभागाः ऊर्ध्वदृश्यमानकङ्कपत्र कृष्णपक्षका :- ऊर्ध्वमुपरि दृश्यमानाः कङ्कपत्रस्य - कङ्कनामक पक्षि- पक्ष निर्मितपुंखस्य शरस्य कृष्णपक्षाः कृष्णवर्णाः पक्षा येषुते वीरमन्मथेन - शूरकन्दर्पेण लम्बिताः उध्वार्धः स्थापिताः तूणकाः शरधय इव भान्तिःशोभन्ते इति पश्य - अवलोकय । आम मञ्जर्या अग्रभागेषु कृष्णवर्णाः भ्रमराः उपविष्टा इति तत्सहिताः मञ्जर्यः कामदेवस्य कङ्ककृष्णपक्षयुक्तबाणसहित तूणीरा इव शोभन्ते इति भाव: । स्की [s] [1] [S]व्य][ । ] ग [s]न्ध [ 1 ]लु [s] CET [ 1 ] षट् [S] प [ 1 ] दौ[s]द्य [1] से [s] वि[1]ताः इति लक्षणसङ्गतिः ॥ अ० २, सू०-२५४ ।। S नो जौ भ्रौ कलभाषिणी ॥ २५५ ॥ नजजभराः । यथा- स्फुरति च दक्षिणमारुतो मृदुशीतलः, प्रतिदिशमुलसितं च केसररेणुभिः । पिकयुवतेः प्रसूताश्च पञ्चमगीतयस्, तदपि सखे मयि न प्रिया कलभाषिणी ।। २५५.१ ।। अरविन्दमित्येके ।। २५५.१ ।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy