________________
२१८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २५३.] 11.m.in.ss.' इतिदृशैरक्षरैः कृताः पादा यस्य पञ्चभिश्चयतिर्यत्र तत् एलानामकमतिशक्करी जातिच्छन्द इत्यर्थः। उदाहरति-यथा-चलितैरिति । बलमथनसदृशमूर्त:- बलस्य तन्नामकस्यासुरस्य मथनः मर्दनः इन्द्रः तस्य, बलस्य ओजसो मथन:- कामः- तस्य वा सदृशी मूर्तिर्यस्य तस्य, यस्यप्रकृतवर्णनीयस्य राज्ञः घटोद्धवमुनिदिशम्- कुम्भोद्भवस्य मुनेरगस्तस्य दिशं दक्षिणाम् अभि- अभिमुखं चलितैः- प्रस्थितैः प्रबलैः- दुर्धर्षेः बलः सैन्यैः परितः सर्वतः लसदहल लवलिबकुलैला:- लसन्त्यः शोभमानाः बहला:- समधिकाः लव लयश्च बकुलाश्च एलाश्च-येषु ते उदधि तट वनान्ताः समुद्रतटवनप्रान्त भागाः निषिषेविरे परिमुक्ताः। यस्य बलानि समुद्रपर्यन्तमनिवारितं गत्वा सुखेन तत्र यथा कामं निविशन्तीति न कोऽपि मध्ये तन्निवारक इति भावः । च[1]लि[1]ते [5] [1]टो[s]द्भ[1]व[1]दि[1]शं[s]म[1]भि[1]य[s]स्य[s] [प्रबलैरिति संयुक्तादि पदे परतो गुरुत्वम् ] इति लक्षणसङ्गतिः ॥ अ० २, सू०-२५२ ॥
न्जमज्राः प्रमद्रकम ॥२५३॥ नजमजराः । यथा- जयति जगत्त्रयोपकृतिकारणोदयो, जिनपतिभानुमान परमधाम तेजसाम् । भविकसरोरुहां गलितमोहनिद्रकं, भवति यदीयपादलुठनात् प्रभद्रकम् ॥ २५३.१॥
लक्षित क्रमेण द्वादशं प्रकारमाह- जज्राः प्रभद्रकमिति। विवृणोतिनजमजराः इति । नगण-जगण-भगण-जगण-रगणाः 'm.is.s.si.sis.' इतीदृशैरक्षरः कृताः पादा यस्य तत् प्रभद्रकं नामतिशक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा- जयति जगत्रयेति । जगत्रयोपकृति कारणोदयः- जगत्रयस्य त्रिलोक्याः उपृकृतिकारणम्- उपकारहेतुभूतः उदयःप्राकट्यं यस्य सः, तेजसाम्-महसाम् परमधाम-प्रधानं स्थानम् जिनपतिमानुमान- जिनपतिरेव भानुमान सूर्यः जयति सर्वोत्कर्षेण वर्तते, यदीयपादलुठनात् यस्य पादयोः चरणयोः लुठनात् साष्टाङ्गं पतनात् भविकसरोरुहां- भक्तकमलानां गलितमोहनिद्रकं- गलिता मोहरूपा निद्रा यस्मिन्तथा भूतं प्रभद्रकं- प्रकृष्टं कल्याणं भवति जायते । अत्र जिनपतेः सूर्यस्य च