SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २१७ [अ० २, सू० २५१-२५२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते राद्वा ॥२५॥ रगणात्परे यदि रम्ययास्तदा वा चन्द्रलेखा । ररमययाः । छैरिति वर्तते। यथा- एक एव क्षणोऽसावानन्दनिष्यन्दहेतुः, सत्कृतः प्राक्तन कश्चित् सखेऽद्य प्रबुद्धम् । नेत्रनीलोत्पलानां पीयूषवृष्टि किरन्ती, यत्पुरः कम्बुकण्ठी सा चन्द्रलेखेव दृष्टा ॥ २५१.१॥ लक्षितेषु दशमं प्रकारमाह राद्वेति । विवृणोति- रगणात्परे यदि रम्भयास्तदा वा चन्द्रलेखा। ररमययाः। छैरिति वर्तते इति । तथा चायमर्थ:- रगणद्वयं मगणः यगणद्वयं च 'SIS.SIS.sss.Iss.Iss' इतीदृशैवणेः कृताः पादा यस्य सप्तमिश्च यतिर्यत्र तत् प्रकारान्तेण चन्द्रलेखानामकमतिशक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा एक एव क्षणोऽसाविति । हे सखे ? मित्र ? मे- मम असौ- अनिर्वाच्यः एक एव- अद्वितीयः क्षण: कालांशः आनन्दनिः ष्यन्द हेतुः- सुखप्रसरकारणम्, [किञ्च ] प्राक्नः पुराचीर्णः सत्कृत पुण्यैः अद्य अस्मिन् क्षणे प्रबुद्धम् फलोन्मुखीभूतम् यत्- यस्मात् नेत्रनीलोत्पलानां- नयननीलकमलानाम् [स्वकीयानाम सम्बन्धिनी] पीयूष वृष्टि- अमृतवर्षां किरन्ती क्षिपन्ती सा-पूर्ववर्णिता कम्बुकण्ठी शङ्खसदृश वाऽङ्गना चन्द्रलेखा इव- शशिकला इव पुरः- अग्रतः दृष्टा- दृष्टिविषयी कृता । अद्य यस्मिन् क्षणे सा मया ऽवलोकिता स क्षणः पुराकृतसुकृतफलोन्मुखी भावादागतो मम परमानन्द प्रसर कारणं जात इति भावः । ए[s]क[1]ए[5]व[s]क्ष [1]णो[s]सा[s], वा[s]न[s]न्द[1]निः[s]ष्य[s]न्द[1] हे[s] तुः[5] इति लक्षण सङ्गतिः ।। अ० २, सू०-२५१ ।। स्जनन्या एला ः ॥२५२।। सजननयाः । रिति पञ्चभिर्यतिः। यथा- चलितैर्घटोद्भवमुनिविशममि यस्य, प्रबलैर्बलैर्बलमथनसदृशमूर्तः। निषिषेविरे चिरमुदषितटवनान्ताः, परितो लसद्वहललवलिबकुलैलाः ॥ २५२.१ ॥ एकादशं प्रकारमाह- स्जनन्या एलाडैरिति । विवृणोति-सजननयाः। डैरिति पञ्चभिर्यतिरिति । सगण-जगणी नगणद्वयं यगणश्च ॥s.
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy