SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २१६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २५०.] मेकाग्रयम् संश्रयेथाः, अवलम्बस्व । कश्चित कारुणिकः संसारदुःखोद्धारोपायं पृष्ट एवमाह- शत्रुमित्रादिषु परस्परविरुद्धेषु सांसारिक पदार्थेषु मे चेत. सो निः स्पृहत्वं यथा स्यात्तथा सर्व समं पश्यन् चित्तैकाग्रयं साधयेति । 'श[5]ौ[s]मि[5][s]ह[5]h [s]र[s]ण्ये[s], सं[5]म[1]दे[s]वा[5]ग[1]दे[s]वा[s]' इति लक्षण समन्वयः ।। अस्यानामान्तरमाह- मण्डूकी चञ्चला वेतन्ये इति । इदमेव चन्दोऽन्ये मण्डूकीनाम्ना पञ्चलानाम्नात्राहुरिति ॥ अ० २, सू० २४६ ॥ माद्रम्ययाश्चन्द्रलेखा छैः ॥२५०॥ मगणात्परे रमययाः। छरिति सप्तभिर्यतिः। यथा- राजन् सत्यं तदेतद् बमोऽद्भुतं वर्णनं ते, दोर्दण्डस्थामभिः स स्पर्धा करोतु त्वदीयाम् । आच्छिन्यायो मुरारेर्वक्षःस्थलात् कौस्तुभं वा, यः कर्षेचन्द्रलेखां शंभोर्जटामाण्डलाद्वा ॥ २५०.१॥ लक्षितक्रमेण नवमं प्रभेदमाह-माद्रम्ययाश्चन्द्रलेखा-छैरिति । विवृणोति- मगणात्परे रमययाः । छैरिति सप्तमिर्यति रिति । मगण रगण मगणेभ्यः परतो यगण द्वयम् 'sss.sis.sss.Iss.Iss.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् चन्द्रलेखा नामकमतिशक्करी जातिच्छन्दः सप्तभिर्यतियुक्तमित्यर्थः । उदाहरतियथा-राजन् सत्यमिति । हे राजन् ! तत् एतत् सम्प्रत्येव वक्ष्यमाणं ते- तव अद्भुतमाश्चर्यभूतं वर्णनं स्वरूपाख्यानं ब्रूमः- कथयामः सः- जनः भवतःतव दोर्ददण्डस्थामभिः-बाहुदण्डदाढयः सह त्वदीयां- त्वया सह स्पर्द्धाप्रतिप्रक्षतां करोतु- विदध्यात् यः मुरारे:- विष्णोः वक्षः स्थलात- उरोभूमेः कौस्तुभं- मणिश्रेष्ठं स्वनाम्नाख्यातम् आछिन्द्यात्- प्रसह्य हरेत् वाअथवा शम्भोः शिवस्य जटामण्डलात- शिर स्थितजटीभूतकेशकलापात् चन्द्रलेखां- शशिलेखां कर्षयेत्- बलादु गृण्हीयात् । यथा विष्णोर्वक्षः स्थलात् कौस्तुभग्रहणं यथा वा शिवशिरतो निशाकरकलाकर्षणमसम्भवि, तथैव त्वया सह बाहुबले स्पर्धाऽपि न सम्भवतीतिभावः । रा[s]जन् [s]स[5]त्यं [s] त[1]दे[s]तत्[5][5]मो[s]द्भु[s]तं[5]व[5][1]नं [s]ते[s] इति लक्षण सङ्गतिः ॥ अ० २, सू० २५० ॥ .
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy