________________
२१४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २४७-२४८.] यतस्ततः सञ्चरन्ति स्वप्रकाशं च परितः किरन्तीति तेषां चन्द्रसादृश्यस्य स्पष्टतया चन्द्रसमूहव्याप्तमिव नभोऽभवदिति भावः । अस्य नामान्तरमाहनन्दी मुखीति भरत इति । तथाहि "आदौ षड् दशमं चैव लघु चैवत्रयोदशम् । यत्रातिशाकरे पादे ज्ञेया नान्दीमुखी तु सा" इति [ भ.ना.शा. १९३] तथा च लक्षणसमन्वयः 'प्र[]]ति[1] मु[][]रि[I]ह[I]दो[5]ला [s]न्दो[s]ल[1]न[1]व्या[s][1]ता[s]नां[s]' इति ॥आ० २, सू०-२४६॥
नौ मो रौ चन्द्रोद्योतः ॥२४७|| ननमरराः । जैरिति वर्तते । यथा- ज्वलति सुभग तस्यास्त्वद्विप्रयोगानले, भवति न खलु किचित् प्रीत्यै कुरङ्गीदृशः । सपदि दहति देहं यच्चान्दनोऽपि द्रवः, प्रथयति नवचन्द्रोद्दयोतोऽपि नेत्रव्यथाः ॥ २४७.१ ॥
षष्ठं प्रकारमाह- नौ मो रौ चन्द्रोद्योत इति । विवृणोति- नन-म-र रा:-जैरिति वर्तत इति । तथा च नगणद्वयात्परतः मगणो रगण द्वयम् ॥. m.sss.sis.sis.' इतीदृशै रक्षरः कृताः पादा यस्य, अष्टमिश्च यतिर्यत्र तत् चन्द्रोद्योत इति नामकमति शकरी जातिच्छन्द इत्यर्थः। उदाहरति- यथाज्वलति सुभगेति । हे सुभग!- सर्व सौभाग्यशालिन् तस्याः- बुद्धिस्थायाः पूर्वप्रकान्ताया वाऽङ्गनायाः त्वद्विप्रयोगानले- त्वया सह विरहरूपेऽग्नी ज्वलति- दीप्यमाने सति कुरङ्गीदृशः- मृगनयनायाः किश्चितकिमपि वस्तु प्रीत्यै- मनस्तोषाय न भवति- न जायते । यत्- यस्मात् चान्दनः- चन्दन निःसृतः द्रवः- रसः अपि देहं- शरीरं सपदि- शीघ्रमेव दहति- तापयति, नवचन्द्रोद्योतः- सद्यः समुदितस्य चन्द्रमसः प्रकाशः अपि नेत्रव्यथाः अक्षिपीडाः प्रथयति- विस्तारयति । त्वदीय-विरहोत्थितस्तापश्चन्दन रसेन- चन्द्रिकास्पर्शेण वा न विरमति प्रत्युत वर्धत एवेति यथा त्वदीयो विरह एव नस्या तथा यतेथा इति नायिका दूत्याः संख्या वा अभिप्रायः । 'ज्व[1]ल[1]ति[1]सु[1] भ[1]ग[1]त[s] स्या[७]स्त्व[s]द्वि[5]प्र[i]यो[s]गा[5]न[s]ले [s]' इति लक्षण संगतिः ॥ अ० २, सू०-२४७ ॥
नौ तभ्रा उपमालिनी ॥२४८|| ननतमराः । जैरिति वर्तते। यथा- नृपवर रिपवस्ते विहाय पुरस्थिति,