SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २४६.] सवृत्तिच्छन्दोऽनुशाशनप्रद्योते २१३ चतुर्थ प्रकारमाह- मणिगुणनिकरो जैरिति । विवृणोति - शशिकलेवजैरष्टमिश्चेद्यतिमंणिगुण निकर इति । चतुमिनंगणैः सगणेन च या शशिकला लक्षिता पूर्वतर सूत्रे सैवाष्टभिरक्षरैयतो सत्यां मणिगुणनिकर इति ख्यातमति शक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा - नृवर यशसोती । नृवर ! - हे पुरुष श्रेष्ठ ! यशसि - कीर्तिविस्तारे मतिः- बुद्धिः, अविकल कलता अविकलाः अशेषाः कला यस्य सोऽविकलकलस्तस्य भावः, अनुपमंअतुलनीयं भुजबलं - बाहुवीर्यम्, अतिनयपरता - अतिशयिताऽन्य नृपापेक्षया समधिका नयपरता नीतिमार्गनिष्ठा, अनुगुरूजनम् - गुरुजनसमीपे नति:-, नम्रता, उचित चतुरता- उचिते कर्तुं योग्ये कर्मणि चतुरता कौशलम् [इति] नृपतिमणिगुणनिकरः नृपति मणीणां - राजश्रेष्ठानां गुणनिकर:गुणसमूहः त्वयि - भवति जयति - सर्वोत्कर्षेण वर्तते । नृवर यशसि मनि, इत्येवं प्रतिपादमष्टमे विरामः इति ॥ अ० २, सू०-२४५ ॥ नौ म्यौ यो मालिनी ॥ २४६ ॥ ननमययाः । जैरिति वर्तते । यथा- प्रतिमुहुरिह दोलान्दोलनव्यापृतानां, कुवलयनयनानामाननैरुल्ल सद्भिः । विमललवणिमाम्भश्चन्द्रिकां द्राक् किरद्भिर् नवशशधर मालामालिनीवाभवद् द्यौः ।। २४६.१ ।। नान्दीमुखीति भरतः ।। २४६.१ ।। पञ्चमं प्रकारमाह- मौ भ्यौ यो मालिनिति । विवृणोति - न न मययाः । जैरिति वर्तते इति । नगणद्वयात्परतः भगण: ततो यगणद्वयम् ' 111.111.ऽऽऽ. Iss. ISS.' इतीदृशैरक्षरः कृताः पादा यस्य अष्टभिर्यंतिश्च यत्र तत्मालिनीनामकमति शक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा प्रतिमुहुरिति । इह - वसन्ते प्रतिमुहुः वारं वारं दोलान्दोलनव्यापृतानाम् - दोलायाम् आन्दोलिकायां यत् आन्दोलनं तस्मिन् व्यापृतानां संलग्नानां कुवलयनयनानम्उत्पलनेत्राणां कामिनीनाम् उल्लसद्भिः प्रकाशमानैः द्राक् - झटिति विमल लवणिमाम्भचन्द्रिकां- निर्मललावण्यरसज्योत्सां किरद्भि: - विक्षिपद्भिः आननं:- मुखैः द्यौः आकाशतलम् नवशशधरमालामालिनी - नूतनचन्द्र पङ्क्तिशालिनी इव अभवत् - जाता । दोलारूढानामङ्गनानामाननान्याकाशे
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy