SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २१२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २४४-२४५.] यति रपि दृश्यते । स्वकीये चोदाहरणे [प्रकृते पद्ये ] न तथा यति ईश्यतेइति नासो नियम आश्रित इत्यायाति । प्राकृत पिङ्गले चास्यैवच्छन्दसः _ 'शरभ' इति नाम कृतम् ॥ अ० २, सू०-२४३ ॥ सा स्रक चैः ।।२४४॥ सा शशिकला चैः षड्भिर्यतिश्चेत् स्रक्संज्ञा । यथा- प्रसरति तव सुभग विरहदहने, शृणु यदजनि किमपि कुबलयदृशः । सरसिजमपि तपति नवविचकिल, स्नगपि सपदि जनयति भृशमरतिम् ॥ २४४.१ ॥ मालेति पिङ्गलः ॥ २४४.१ ॥ तृतीयं प्रभेदमाह-सास्रक चैरिति । विवृणोति- सा शशिकला चैरिति षड्मियतिश्चेत् स्रक संज्ञेति । पूर्वोक्तं शशिकलानामकमेवच्छन्दः षड्मिर्यतो सत्यां सक्नाम्ना प्रसिद्ध मति शकरी जातिच्छन्द इत्यर्थः । उदाहरतियथा- प्रसरति तवेति । हे सुभग !- सौभाग्यशालिन् तव- भवतो विरहदहने वियोगवह्नौ प्रसरति-विस्तृते सति कुवलयदृशः- उत्पलाक्ष्याः यत् किमपि अनिर्वचनीयं [दुःखम्] अजनि- अभूत् [तत्] शृणु [आकर्णय] सरसिजम्- कमलम् अपि [ किमुतान्यत् ] तपति- सन्तापं जनयति नवविचकिलरक- नूतनमदनपुष्पमालापि सपदि- अटिति भृशमत्यन्तम् अरतिम्- अशान्ति जनयति- उत्पादयति । तथा च यथा त्वद्विरहोनस्यात्तथा विधेहिति भावः । गण विन्यासः पूर्ववदेव, केवलं षड्मियतिविशेषः तथा च प्रसरति तव, शुणु यदजनि, इत्येवं रूपेण षष्ठेऽक्षरे विरम्य पठनीयमिति । अस्यापि नामान्तरमित्याह-मालेतिपिङ्गल इति। तथा च पिङ्गलछन्दः शास्त्रे सूत्र-मालतुनवको चेत् [७।१२] इति 'सैव चन्द्रावर्ता माला' नाम भवेद् यदि षष्ठे नवमे च यतिः, इति तद्वयाख्यायां भट्टहलायुधः। षड्मियति रिति स्वमतेऽपि पारिशेष्यान्नवनिद्वितीया यति रायात्येवेति साम्यम् ॥ अ० २, सू०-२४४ ॥ मणिगुणनिकरो जैः ॥२४५॥ शशिकलव जैरष्टमिश्च धतिर्मणिगुणनिकरः । यथा- नृवर यशसि मतिरविकलकलता, भुजबलमनुपममतिनयपरता । नतिरनुगुरुजनमुचितचतुरता, त्वपि जयति नृपतिमणिगुणनिकरः॥ २४५.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy