________________
[अ० २, सू० २४३. ] सवृत्तिच्छन्दोऽनुशासनप्रद्यो
२११
वान् सर्वेश्वर्य सम्पन्नः ऋषभध्वजः - ऋषभः वृषोघ्वजश्चिन्हं यस्य सः वृषाङ्कः आदिदेव ईश्वरस्य भवतः - भूत्यै कल्याणाय अस्तु - भूयात् । ज [ 1 ] ग[1] तां [s][वि][1]भुः [s][[1] थु[1]ज [1] हा [S]पि [1] हि []तां[s] स [1] दे[s] श: [s] इति लक्षण संङ्गतिः ॥ अ० २, सू० - २४२॥
नीसौ शशिकला ॥२४३॥
नोरिति नगणाश्चत्वारः सच । यथा- अरतिमति हि मम वपुषि विदषतों, तिरयसि यदि नवजलद शशिकलाम् । स्वयमपि किमिति न कलयसि करुणा, यदिह विरचयसि कटु रसितमहो ।। २४३.१ ।। अत्र सप्तभियंतिरित्येके । चन्द्रावर्तेति पिङ्गलः ॥ २४३.१ ॥
द्वितीयं प्रकारमाह- नी सौ शशिकलेति । विवृणोति नीरिति नगणाश्चत्वार सश्चेति । तथा च ' ।।। ।।। ।।। ।।। । ' इतीदृशैर्वर्णैः कृताः पादा यस्य तत् शशिकला नामकमति शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथाअरतिमतीति । हे नवजलद ! नूतन वारिद ! मम वपुषि - शरीरे अतिअत्यन्तम् अति तापं विदधतीं- कुर्वतीं शशिकलां - चन्द्रलेखां यदि तिरयसि - अन्तर्दधासि [हि ] स्वयमपि - स्वविषयेऽपि करुणां दयां किमति - कस्माद्धेतोः न कलयसि - न करोषि यत् इह - भम समीपे कटु- दुःसहं रसितं - गर्जितं विचयसि करोषि इत्यहो - आश्चर्यम् । काचिद्विरहिणी रात्री शशिकलया तप्यमाना तस्मिन्क्षणे तदाच्छादकं मेघमागतं विलोक्य तस्य स्तुतिपूर्वकं दु:खान्तरदायित्वमाह । यदित्वया शशिकला जनितं दुःखंदृतं तर्हि शनैस्तूष्णीमेव तिष्ठ, गर्जितं वर्जयेति भावः । अ[1]र [ 1 ]ति [0]म [ ]ति [ 1 ] हि [ 1 ] म [1]म [1]व [ 1 ]पु [1]षि[1]वि[1]द[0] [s]तीं[s] इति लक्षणसमन्वयः । अस्य लक्षणे भेदमाह- अत्र सप्तभिर्यतिरित्येक इति । चन्द्रावर्त्तेति पिङ्गल इति च । पीङ्गल छन्दः शास्त्रे चन्द्रावर्ता नौ नौ स्' [ ७।११ ] इति सूत्रेणास्यैवच्छन्दसः 'चन्द्रवर्ता' इति नाम कृतम् । तस्य व्याख्यायां च भट्टहलायुधेनोक्तम्- अत्रस्वरैर्वसुभिश्च यति रित्याम्नाय इति । तत्र स्वराः सप्त वासवोष्टी, सप्तमिर्यतिरित्युक्तेऽपि पारिशेष्यादृष्टभिरपि यतिः सिद्धैव तावता पाद पूर्ती 'यतिः सर्वत्र पादान्ते' इति नियमात् । तथा च तेनोक्ते उदाहरणे तथा
"