________________
२१०
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २४२.] सति पातालेन्द्रः- शेषनागः न्यञ्चद्भूभीभर कुटिलितमूर्ना न्यञ्चन्ती नीचंगच्छन्ती या भूमी-पृथ्वी तस्या भरेण भारेण कुटिलितानां वक्रीभूतानां मूघ्नां शिरसां साराह्यार्थसाहायकाय, भुजदण्डान्- बाहुस्तम्भान् उच्चैः- उपरिभाग स्यात् रचयति- विद्घाति किल निश्चयेन [ इत्यहं ] मन्ये तर्कयामि । तथा तब बलं विशालं यत् तच्चलने पृथ्वी तथा भारिणी भवतियेन तद्वहने शेषशिरांसि न क्षमाणीति स शिरः साहाय्याम हस्तानपि तत्र योजयतितिभावः । अस्य नामान्तर माह हंसश्येनीत्येक इति । श्री[s]चौ[s] लु[s]क्य[5]क्षि[1]ति[1]प[1]ति[1]ल[1]क[1]दिग्[s]या[s]त्रा[s][5] इति लक्षण समन्वयः ॥ अ० २, सू० २४१ ॥ इत्येवं शक्करी जातिच्छन्दसां द्वाविंशती भैंदा लक्षिताः प्रस्ताररीत्या त्वस्य चतुर्दशाक्षरच्छन्दसः १६३८४ भेदाः भवन्ति । तदुक्तं भरतेन- "शतानि त्रीण्यशीतिश्च सहस्त्राण्यपि षोडश । वृत्तानि चैव चत्वारि शक्कर्याः परिसंख्यया" इति [भ० ना० शा० १४।६०] ॥ २४१ ॥ इति शक्करी जातिच्छन्दः । अ० २, सू०-२४१ ।।
अतिशक्वर्या स्जसस्या ऋषमः ॥२४२॥ सजससयाः । यथा- जगतां विभुः पृथुजटापिहितांसदेशः, सततं महषिगणसेवितपादपमः । मकरध्वजप्रमथनप्रथितप्रभावः, ऋषभध्वजः स भगवान भवतोऽस्तु भूत्यै ।। २४२.१॥ ___ अथातः पश्चदशाक्षर पादामति शक्करीजाति वर्णयितुमुपक्रमते- अति शक्वर्या स्ज सस्या ऋषभ इति । विवृणोति-सजससया इति । सगणजगणाभ्यां परतः सगणद्वयं जगणश्च ॥S..s.s.ss.' इतीहशरक्षरः कृताः पादा यस्य तत् ऋषभनामकमति शक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा-जगतामिति । जगतां- भुवनानों विभूः- व्यापक: स्वामीच पृथुजटापिहितं प्रदेश:- पृथ्वीभिरायामिनीमिर्जटाभिः असंस्कृतकेशः पिहितः छन्नः अंसदेशः स्कन्धप्रान्तो यस्य सः, सततं- सर्वदा महर्षि गणन्- जितपाद पद्मः सप्तमहर्षिभिः, महर्षिभिः गणेः प्रथामदिभिश्चेति वा पूजितं पादपद्मं यस्य सः, मकरध्वजप्रमथन प्रथित प्रभावः- मकरध्वजस्य कामस्य प्रमथने दलने प्रथितः प्रसिद्धः प्रभावो यस्यः सः, स प्रसिद्धः भग