________________
[अ० २, सू० २४०-२४१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २०६ शशकतुलनां यत्पुरस्तात्, कलयति द्विरददलनव्यक्तकेलिः । तव सुतः स इह शरभोऽनन्यवीरः, सुतवती ननु शरभिके स्वं तदेका ॥ २४०.१ ॥
एकविंशं प्रभेदमाह- तच्छरभा घचैरिति । विवृणोति- तच्छरभललितं घचैश्चतुभिः षड्मिश्चेद्यतिः, शरभासंज्ञम् इति । पूर्वोक्तं शरमललितं छन्दः चतुभिरक्षरः षड्मिश्चाक्षरर्यति युक्तं चेत् शरमासंज्ञं भवतीत्यर्थः। उदाहरति- यथा- मृगरिपुरिति । द्विरददलन व्यक्तकेलि:- द्विरदानां गजानां दलने मर्दने व्यक्ता स्पष्टा केलि: क्रीडा यस्य स मृगरिपुः- सिंहः यत्पुरस्तात्- यदग्रे शशकतुलना- तुच्छमृगविशेषसादृश्यं कलयति धारयति स तादृशः तव भवत्याः सुतः-पुत्रः शरभः अनन्यवीरः- असमशूरः, तत्तस्मात् हे शरमिके ! त्वम् एका- अद्वितिया सुतवती- पुत्रिणी ननु निश्चितम् । यः किल गजानपि क्रीडया दलयति स सिंहोपि, तव पुत्रस्याग्रे शश इव नीचैः स्थितो भीत इव भवतीति तव पुत्रोऽसौ शरमो वीरेषु मुख्यं इति तन्मात्रत्वं, पुत्रिणीणां धुरि गणनीयेति भावः । वर्णविन्यासः शरभललितवत् मृगरिपुः शशकतुलना, इत्येवंरूपेण चतुभिः षड्भिश्च यतिरपि ॥ अ० २, सू०-२४० ॥
म्भन्या गौ कुटिलम ॥२४१॥ मभनयगगाः । घरिति वर्तते । यथा- श्रीचौलुक्यक्षितिपतिलक दिग्यात्रार्थ, त्वत्सन्येऽस्मिन् प्रसरति किल पातालेन्द्रः । न्यश्चमीमरकुटिलितमना मन्ये, साहाय्यार्थ रचयति भुजदण्डानुचः ॥२४१.१॥ हंसश्येनीत्येके ॥२४१.॥१४॥२२॥
द्वाविशं प्रभेदमाह- म्भन्या गौ कुटिलमिति । विवृणोति- मभनयगगाः धचैरिति वर्तन इति । मगण-भगण-नगण-यगणाः गुरूचेति 'sss.su.s.iss. ss.' इतीदृशैरक्षरः कृताः पादा यस्य चतुमिः षड्मिश्च यतिर्यत्र तत् कुटिलं नाम शक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा- श्रीचौलुक्येति । हे श्री चौलुक्यक्षितिप-तिलक ! श्रिया युक्तः चुलुक्यवंशोद्भव एव क्षितिपानां तिलकः श्रेष्ठः तत्सम्बोधनम्, अस्मिन्- अग्रतः स्थिते त्वत्सन्ये- तव बले दिग्यात्रार्थ दिशां जयाय यात्रा दिग्यात्रा तदर्थ प्रसरति सति-प्रचलति