________________
२०८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २३८-२३६.]
रता - अनुरक्ता असि । अयमाशयः तव पतिः कामेन भृशं शरैस्ताडयतेइति सभवत्यां भृशमनुरक्तः, त्वां तु कामोऽपि स्पृहयत इति त्वयि सन प्रहरति- त्वदा लोकनादेव गलितचापो भवति - इति कामपीडया रहितात्वं स्वपतौ नानुरज्यस इति । स [s] स्पृ [)] ह [ 1 ] इ[1]व[s]त्व [1] यि [1]र[1]ते [5] [1]पि [1]द [1] पि[ ]त: [s]' इति लक्षणसंङ्गातिः ॥ अ० २, सू० - २३८ ॥
न्भन्ता गौ शरभललितम् ॥२३६॥
नमनतगगाः । यथा- वहसि गन्धकरटिघटां पृष्टदेशे, कररदः प्रहरसि च ताम्बुवाहे । दलयसि क्षितिधरशिरः पादपातंर्, इदमहो शरभ ललितं ते न यत्नः ॥ २३६. १ ॥
विंशं प्रकारमाह - न्भन्ता गौशरमललित मिति । विवृणोति - नभनतगगा इति । नगण-भगण-नगण तगणा: गुरू च ' 111.511.111.55Iऽऽ' इतीदृशैरक्षरैः कृताः पादा यस्य तत् शरभललितं नाम शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- वहसि गन्ध करटि घटामिति । हे शरम ! पक्षिराज ! [ अष्टपादूर्ध्वनयन ऊर्ध्वपाद चतुष्टयः ॥ इति लक्षणलक्षितो महा विहगः शरभः ] पृष्ठदेशे स्वपृष्ठभागे गन्धकरटिघटां- गन्धगजसमूहं वहसि - धारयसि, कररवैः- हस्तसहितदन्तैः मत्ताम्बुवाहे मदयुके मेघे [ अथवा मत्त इति सम्बोधनम् ] प्रहरसि च - प्रहारं च करोषि क्षितिघरशिरःपर्वत शिखरं पादपातै:- चरणनिक्षेपैः दलयसि - मर्दयसि इदं पूर्वोक्तं सर्वमाश्चर्यकारि कर्म ते- तव ललितं- क्रीडितं न यत्न:- नायास [इति ] अहो - आश्चर्यम् । करिघटायाः पृष्ठेनोद्वहनम्, जलधरे दन्तैः हस्ताभ्यां च प्रहारः सहैव च गिरिशिखर दलनमित्येतावत्सर्वमाश्चर्यं यौगपद्येन कुर्वन्नपित्वं न परिश्रममनुभवसि - इति अहो तव बलमिति भावः । व []ह[1] सि [1]गं [s]ध [+]क [0]र [1]टि[1]ध[1]टां[s]पृ[s]ष्ठ[1]दे[s]शे [s] इति लक्षणसमन्वयः ॥ अ० २ सू० - २३६ ॥
तच्छरमा घचैः ॥२४०॥
तच्छर मललितं घचंश्चतुभिः षड्मिश्वद्यतिः शरभासंज्ञम् । यथा- मृगरिपुः