________________
[अ० २, सू० २३८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२०७ अष्टादशं प्रकारमाह- भस्नागौ स्खलितम् इति । विवृणोति- भजसनेम्यः परोगाविति । भगण-जगण-सगण-नगणेभ्यः परी गुरू '।।s.s.m. ss.' इतीदृशैरक्षरः कृताः पादा यस्य तत् स्खलितं नाम शक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा-पुष्पशरेति । अस्य- पूर्वप्रकान्त नाम्नः सुभगस्य- सौभाग्य शालिनः, पुष्पशररम्यतनुता- कामदेव सदृशं शरीरसौन्दर्यम्, सलवणत्वं- लावण्यसाहित्यम्, वाङ्मधुरता- वचसि माधुर्यम्, चतुरता- व्यवहारनपुण्यम्, बहुकलत्वम्- बहीभिः कलाभिः शिल्पादिभिः सहितत्वम्; सर्वमपि च अन्यदप्येतद्सम्बन्धि सकलं वस्तु मे- मनःस्मिन् अनुरक्तायाः रतये- तोषाय, केवलम्- एकम् इदं- बहुशोऽनुभूतम्, स्खलित गोत्रम्- नाम्नि स्वलनम्- प्रमनाम्नः प्रयोगे कर्तव्ये परस्त्रीनाम प्रयोगः व्यथयति पीडयति । सर्वथा समादरणीय गुणोऽप्ययं नाम स्खलेना न्यस्यामनुरक्ततया प्रतीयमानो मां दुःखाकरोतीत्यर्थः । 'पु[s]ष्प[1]श[1] र[1]र[s] म्य[1]त[1]नु[1]ता[5]ता[s]स [1]ल[1]व[1]ण[s]त्वं [s]' इति लक्षण संङ्गतिः ।। अ० २, सू० २३७ ।।
ल्गौ चेदिन्दुवदना ।।२३८।। मजसनेभ्यः परौ लघुगुरू चेदिन्दुवदना । यथा- सस्पृह इव त्वयि रतेरपि दयितस्, त्वद्वदनवीक्षणवशाद् गलितधनुः । ताडयति नैष भवतीं शरनिकरर्-, इन्दुवदने न रमणे तदसि रता ॥ २३८.१. ॥
ऊनविशं प्रकारमाह- ल्गौचेदिन्दु वदनेति । सूत्रान्तरात्पदाध्याहारेण सूत्रं व्याख्याति- भजसनेभ्यः परौ लघुगुरूचेदिन्दु वदनेति । पूर्वसूत्रोक्तभगण-जगण-सगण-नगणेभ्यः परोलघुगुरू '1.51.5.1.15.' इत्येव यदि पाद विन्यास: स्यात्- तर्हि तत् इन्दुवदना नामकं शक्वरीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- सस्पृहइवेति । हे इन्दुवदने ! चन्द्रानने ! त्वद्वदनवीक्षणवशात्- त्वन्मुखाव लोकनात् हेतोः गलितधनुः हस्ताद्धृष्टचापः रतेः- प्रसिद्धायाः कामपत्न्या दमितः- पतिः कामः त्वयिभवत्यां सस्पृहः- साभिलाषः इव एष कामः भवतीं शरनिकरः- बाणसमूहैः न ताडयति- न पीडयति तत्- तस्मात् कारणात् रमणे- स्वपतो न