________________
२०६
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २३६-२३७.] कटक नाम्ना व्यवहरन्तीत्यर्थः । वि[1]ह[1] [1]नि[1]त[s]म्ब [1] वि[s] फ[s] लब[1]ल[1] के [s]सु[1]द[1] शां[5] इति लक्षणसङ्गति ॥अ० २, सू०-२३५॥
भौ रसल्गा ददुकः ॥२३६।। ममरसलगाः । यथा- मृत्युमुपैति यदा कणशो दल-, त्येष तदापि न हन्त विश्वसनोचितः । कालमवाप्य पुनर्जनश्रवणज्वरं, दुर्जनददुरकः करोति कटूक्तिभिः ॥ २३६. १॥
सप्तदशं प्रकारमाह- भौरसल्गा दर्दुरकः इति । विवृणोति- भभरसलगा इति । भगणद्वयं रगणः सगणः लघुगुरू च 'sn.sil.sis.s.s' इतीदृशैरक्षरैः कृताः पादा यस्य तत् दर्दु रकनामकं शक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा- मृत्युमुपैतीति । एष:- बुद्धिस्थः दुर्जनदर्दुरकः- दुजन इव दर्दु रकः, दुर्जनो दर्दुरक इवेति च, यदा मृत्युम्- प्राण वियोगम्, उपैति- गच्छति, यदा(च) कणश:- कणेन- कणेन वा दलति- विदीर्यते, तदपि न विश्वसनोचितः- विश्वास पात्रता- योग्यः, कुत इत्याह कालंस्वानुकूलसमयं [ वर्षाकालं च ] अवाप्य- लब्ध्वा कटूक्तिभिः- स्वीकटु रटनैः पुनः- भूयः जनश्रवणज्वरं- लोककर्णपीडां करोति विधत्ते । दर्दूरो [ भेकः] वर्षाक्षये मृतोऽपि मृत्सुलीनोऽपि पुनवर्षागमे जीवति कटु रटति चेति प्रसिद्धिः, तदुपमया दुर्जनोऽपि जनसृत प्रायतां नीतोऽपि दण्डयातनर्दलितोऽपि पुनः स्वानुकुलं समयमधिगम्य कटुप्रलापादिभिः सजनान्वेदयत्येवेति भावः । मृ[s]त्यु[1] मु[1][s]ति[1] य[1]दा[s]य[1]दा[s]क[1] ण[1]शो[s]द[I]ल[5] त्येषेत्यग्रिमपादे संयोग सत्त्वादस्य गुरुत्वम्, यद्यपिपादान्ते इत्यं पद विच्छेदोऽनुचितः, तथापि यतिविचारप्रसङ्गे- "द्रष्टव्यो यति चिन्तायां पाद्यादेशः परादिवात्" इत्युक्ततया एवं प्रयोगस्य साधुत्वमनुज्ञातम् ] इति लक्षणसङ्गतिः ॥ अ० २, सू० २३६ ॥
__म्जस्नाद्गौ स्खलितम् ॥२३७॥ मजसनेभ्यः परी गौ । यथा-पुष्पशररम्यतनुता सलवणत्वं, वाङ्मधुरता चतुरता बहुकलत्वम् । सर्वमपि चास्य सुभगस्य रतये मे, केवलमिदं व्यथयति स्खलितगोत्रम् ॥ २३७.१॥ महिता, कान्ता, वनमयूरनेत्यन्ये ॥२३७.१।।