SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २३५. ] सवृत्ति च्छन्दोऽनुशासनप्रद्योते २०५ भज नवकिसलयमृदुशयनीयम् । प्रियसखि ! ननु शरदियमुपतस्थे, यदभिसरति दिनपतिरुपचित्रम् ।। २३४.१ ।। पञ्चदशं प्रकारमाह- नोर्गावुपचित्रम् इति । विवृणोति - नीरिति नगणाश्चत्वारो गद्वयं चेति, तथा च ' ।।।।।।।।।।।।.ऽऽ. ' इतीदृशैरक्षरः कृताः पादा यस्य तत् उपचित्रं नाम शक्करीजातिच्छन्द इत्यर्थः । उदाहरतियथा - अनुसरेति, हे प्रियसखि ! हिमकरकिरणसमूहं चन्द्रकरनिकरम्, अनुसर आनुकूल्येन भज, नवकिसलयमदुशयनीयं- नूतनपत्र रचितकोमलशय्यां, भज - आश्रय, इयं शरत्- ऋतुः, उपतरथे- समागता, ननु इति निश्चये, यत् - यस्मात्, दिनपतिः - सूर्य:, उपचित्रं - चित्रायाः समीपम्, अभिसरतिगच्छति । चित्रामुपगते भानी शरत् प्रवृत्ता भवतीति तत्र यदाचरितुमुचितं तत् कुर्वेति भावः । 'अ[ । ]नु[] स [1] [], हि[ ]म[1]क[+]र[+] कि[1]र[1] [] स [1] मू[s]हं[s]' इति लक्षणसमन्वयः ॥ अ० २, सू० - २३४ ॥ न्ज जल्गा धृतिः ॥। २३५।। नजभजलगाः । यथा - विहर नितम्बबिम्बफलिके सुदृशां, गत निघनानि संचिनु धनानि भृशम् । रचय चिरं च सुन्दरनराधिपतां तदपि न किचनास्ति तव चेन धृतिः ।। २३५.१ ।। मणिकटकमित्यन्ये ॥ २३५.१ ॥ लक्षितक्रमेण षोडशं प्रभेदमाह - न्जभ्जल्गा धृतिरिति । विवृणोतिनजभजलगाः इति - नगण - जगण - भगण- जगणा लघुगुरू च ' ।।1. 151. S।।. 151. - 15. ' इतीदृशैरक्षरैः कृताः पादा यस्य तत् धृतिनामकं शक्करी जातिच्छन्द इत्यर्थः । उदाहरति- यथा-' - विहरेति, [रे जीव ! ] सुदृशां - सुनयनानां, नितम्बबिम्बफलके-- कटिपश्चान्मण्डलाकारपट्टके, विहर- विहरणं विवेहि, भृशम् - अत्यर्थ, गतनिधनानि - अक्षयतया मतानि धनानि - वित्तानि संचीतु- अर्जय, चिरंबहुकालपर्यन्तम् [आत्मनः ] सुन्दरनराधिपतां - शोभननृपत्वं च रचय - साधय, तदपि - तथापि, किञ्चन - किमपि फलं न अस्ति चेत्- यदि, तव - भवतः, धृतिः - सन्तोष:, न [ अस्ति ] धृति विना सर्वे कामा: प्राप्ता अपि नान्तस्तोषाय भवन्तीति सर्वतः प्राथम्येन तदर्थमेव यत्नो विधेय इति भावः । अस्य नामान्तरमाह - मणिकटकमित्यन्ये इति । अन्ये केचन इदं छन्दो मणि " ,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy