SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २०४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २३३-२३४.] वाार्थनाटनं, कुरुते, पदे पदे- प्रतिपदम्, अङ्गबलनादि- शरीरमोटनादि, व्यश्तुते- घटयति [च] । यदियं वाच्यार्थ हस्तविभ्रमादिभिर्नाटयति, यच्च प्रतिपदं गात्रभङ्गादि करोति तेन विज्ञायते सद्यः समागतेन यौवनेन समुपदिष्टं व्यापार विस्तारयतीति भावः ॥ अस्य नामान्तरमाह- लतेत्यन्य इतिअन्य आचार्य इदं छन्दो लतेति नाम्ना व्यवहरतीति भावः। 'न[5]व्य[1] यौ[5]व[1]न[1]न[1]ट[5]स्य[i], त[i]नो[5]ति[1], नि[]यो[5]ग[5]' इति लक्षणसमन्वयः ॥ अ० २, सू०-२३२॥ वत्रल्गाः सुकेसरम् ॥२३३|| नरनरलगाः । यथा- घटयसे ज्यया किमिति काम! कार्मुकं, यदभवत् पुरस्तव जगद् वशंवदम् ॥मधुकरीनिनादमयमन्त्रमन्त्रितर्, जलरुहां सुकेसरपरागचूर्णकः ॥२३३.१॥ चतुर्दशं प्रकारमाह- नत्रल्गाः सुकेसरमिति। विवृणोति- नरनरलगा इति- नगण-रगण-नगण-रगणा: लघुगुरू च 'ms.m.sis.s.' इतीदृशैरक्षरः कृताः पादा यस्य तत् सुकेसरं नाम शक्करीजातिच्छन्द इत्यर्थः । उदाहरतियथा- घटयसे ज्ययेति, हे काम !, कार्मुकं- धनुः, ज्यया- मौा, किमिति- कस्मै प्रयोजनाय, घटयसे- योजयसि, यत्- यस्माद्धेतोः, पुर:- कार्मुकेज्यायोजनात् पूर्वमेव, मधुकरीनिनादमयमन्त्रमन्त्रितै:- मधुकरीणां- म्रमरीणां, निनादमय:- शब्दपूर्णः, मन्त्रः, मन्त्रित:- कृतसंस्कारः, जलरुहां-कमलानां, सुकेसरपरागचूर्णकैः- सुन्दरकेसरोद्गतैः परागचूर्णकैः पुष्परजोभिः, जगत्- विश्वम्, तव- भवतो, वशंवदम्- आयत्तम्, अभवत्- अजायत । जगदशीकरणायव त्वया धनुषि मौर्वी नियोज्यते, तच्चेत् पूर्वमेव मधुकरीशब्दसहकृतः कमलपरागः कृतं तर्हि ते व्यर्थोऽयं परिश्रम इति भावः । कारणात् पूर्वमेव कार्यसिद्धिरूपातीशयोक्तिः । घ[i][i]य[1]से [s], ज्य[1]या[5],कि[1] मि[1]ति [1],का[0]म[I], का[s][] कं[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-२३३ ॥ नीवुपचित्रम् ॥२३४|| नीरिति नगणाश्चत्वारो गद्वयं च । यथा- अनुसर हिमकरकिरणसमूह,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy