________________
[अ० २, सू० २३२. ] सवृत्तिच्छन्दोऽनुशासन प्रद्योते
२०३
दुचिरपत्रलतावलीकां - नव्यानूतना, स्फुरन्ती - संचलन्ती, पत्राणां लतानां चावली यस्यास्तां, पक्षे नव्या स्फुरन्ती- प्रकाशमाना पत्रलता - पत्राकाररचनाविशेषः, वली - उदरस्था त्रिवली च यस्यास्तां, तिलकाञ्चितचारुशोभांतिलकै:- वृक्षविशेषैः, अश्विता - पूजिता, चारुशोभा यस्यास्तां, पक्षान्तरे तिलकेन - भालबिन्दुना, अश्चिता- चारुशोभा यस्यास्तां, कान्तां - कमनीयाम्, इमां - प्रत्यक्षदृश्यमानां वनश्रियं - वासन्तिकीं वनलक्ष्मीं, त्वम् दिष्टया - भाग्येन, उपागतः - प्राप्तवान् असि । वनश्रियो विशेषणैः काचित् तादृशीं कामिनीमाक्षिपद्भिर्वसन्तान्योक्त्या कस्यचन नायकस्य तादृग्गुणोपेताया नायिकायाः प्राप्तिः सम्भाव्यते - प्रशस्यते । भाग्यादेव तादृशकान्ताया लाभ इति तस्याकृतम् । अत्र समासोक्तिरलङ्कारः । 'सत्[s]क[S]णि[1]का[S]र[1] चि [1] [ 1 ] वि[5] [5] [] चा [s] रु [1] शो [s]भां[s]' इति लक्षणसङ्गतिः । अस्य नामान्तरमाह - उद्धर्षिणी सैतवस्य, सिहोन्नता काश्यपस्येति - सैतवनामा आचार्य इदं छन्द उद्धर्षिणीति नाम्ना, काश्यपश्च सिंहोन्नतानाम्ना व्यवहरतीत्यर्थः । अ० २, सू०-२३१ ॥
नौ भौ गौ वलना ॥२३२॥
रनभ भगगाः । यथा - नव्ययौवननटस्य तनोति नियोगं, निश्चितं वरतनुविकसन्मुखरागा । हस्तकैरभिनयं कुरुते ब्रुवती यद्, व्यतेनुऽङ्गवलनादि पदे पद एषा ।। २३२.१ ।। लतेत्यन्यः ।। २३२.१ ।।
त्रयोदशं प्रकारमाह - नौ भौ गौ वलनेति । विवृणोति - रनभभगगाः इति - रगण-नगण - भगणद्वय - गुरुद्वयानि 'SIS . ।। ।। II. 55. ' इतीदृशैरक्षरः कृताः पादा यस्य तत् वलनानामक शक्करीजातिच्छन्द इत्यर्थः । उदाहरतियथा - नव्ययौवनेति, विकसन्मुखरागा - विकसन् - विकासमधिगच्छन्, मुखरागः- वदनशोभा यस्याः सा, एषा - प्रत्यक्षदृष्टा, वरतनुः- शुभाङ्गी, नव्ययौवननटस्य- नव्यं- सद्यः प्रारब्धं यौवनमेव नटः- नाट्यशिक्षकस्तस्य, नियोगं - व्यापृति, निश्चितं - निशङ्कं तनोति - अनुवर्तनेन विस्तारयति, यत् - यस्मात्, ब्रुवती - किञ्चिदालपत्ती, हस्तकैः - कोमलैः करैः, अभिनयं -