________________
२०२
सृवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० २३१.] एकादशं प्रकारमाह-म्तौ सौ गावसम्बाधा जैरिति । विवृणोतिमतनसगगाः। रिति पञ्चभिर्यतिरिति-मगण-तगण-नगण-सगणा गुरूच 'sss.ssi..is.ss.' इतीदृशैरक्षरैः कृताः पादा यस्य, पञ्चभिश्च यतिर्यत्र तत् असम्बाधानामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति-यथा-नैतल्लक्ष्माडू इति, अङ्के- चन्द्रस्य मध्ये, एतत्- परिदृश्यमानं, लक्ष्म- लाञ्छनं, न, उततहि, किम् ?, कटुरसं- कटुरसयुक्तं, बाधाहेतु:- सर्वस्य, स्वास्थ्य- बाधनकारणं- विषं- गरलं [समुद्रोत्थितम्], सहजप्रित्या- सहजात- बन्धुप्रेम्णा, इह- चन्द्रमसि, संलीनं- श्लिष्टं, तेन- हेतुना, अयं- प्रत्यक्षदृश्यः, सुधाराश्मिः- अमृतदीधितिः [अपि] चन्द्रः, निःशङ्कः सत् विरहिलोकानां- वियोगिजनानां, सपदि- स्वोदयसमकालमेव, मूर्खा- संमोहं, विरचयति- करोति, [इत्यह] मन्ये- उत्प्रेक्षे । सुधाकरस्य मूर्खाकारणत्वमसंभवीति वियोगिमूर्छाकरत्वं तस्यानुपपन्नमिति लाञ्छनस्य विषश्लेषत्वोत्प्रेक्षणेन मूर्छाहेतुत्वं साधितमिति हेतूत्प्रेक्षेयम् । नै[5]त[5]ल्ल[s]क्ष्मा [s]ङ्के[s], कि[1]. मु[1]त[1],क[1]g[1][i]सं [s], बा[s]धा[s]' इति पञ्चभिश्च यतिरिति च लक्षणसमन्वयः ।। अ० २, सू०-२३०॥
त्भौ जौ गौ वसन्ततिलका ॥३१॥ मजजगगाः । यथा- सत्कणिकारचितविभ्रममासमानां, नव्यस्फुरद्रुचिरपत्रलतावलीकाम् । दिष्टया वसन्त ! तिलकाञ्चितचारुशोभा, कान्तां वनश्रियमिमां त्वमुपागतोऽसि ॥ २३१.१॥ उर्षिणी सैतवस्य । सिंहोन्नता काश्यपस्य ॥२३१.१॥
द्वादशं प्रकारमाह- त्भौ जौ गौ वसन्ततिलकेति । विवृणोति- तभजजगगाः इति । तगण-भगणी जगणद्वयं गुरुद्वयं च 'ssI.SI.IsI.IsI.ss.' इतीदृशरक्षरः कृताः पादा यस्य तत् बसन्ततिलकानामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- सत्कणिकारचित्तेति, हे वसन्त ! सत्कणिकारचितविभ्रमभासमानां- सद्भिः, कणिकारैः- वृक्षविशेषः, चितां, वीनां- पक्षिणां, भ्रम:सर्वतः परिभ्रमणं, तेन भासमानां, पक्षान्तरे च सत्या कणिक्या- कर्णाभरणविशेषेण, रचित:- कृतो यो विभ्रमः- विलासस्तेन भासमानां, नव्यस्फु