________________
[अ० २, सू० २२६-२३०.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २०१ पादेषु सप्तभियंतिः स्पष्टव । 'स[1]म[1]द[1]ना[s]गे[s]न्द्रा[s]णां[1], क[1] पो[s]ल[1]वि[1]पा[८] [1]ने[s]' इति लक्षणसङ्गति ॥ अ० २, सू०-२२८॥
__ ज्सौ रनौ गौ राजरमणीयम ॥२२॥ जसरनगगाः । छरिति वर्तते । यथा- समुद्धृतधरित्रीतलः प्रमुदितार्यो, विनम्रतरधाराषरानुसृतपादः । चुलुक्यनृप ! कीतिदधत् त्रिपथगां त्वं, विभासि खलु शैलाधिराजरमणीयः ॥ २२६.१ ।।
दशमं प्रकारमाह- जसो नौ गौ राजरमणीयमिति । विवृणोति- जसनरगगाः । छैरिति वर्तते इति- जगण-सगण-रगण-नगणाः गुरू च 'Is.s. sis...' इतीदृशैर्वर्णः कृताः पादा यस्य, सप्तभिश्च यतिर्यत्र तत् राजरम. णीयं नाम शक्करीजातिच्छन्द इत्यर्थः । उदाहरति-यथा-समुद्धृतधरित्रीति, हे चुलुक्यनृप ! समुद्धृतधरित्रीतल:- समुद्धृतं- प्रचलनाद् रक्षितं धरित्रीतलंभूतलं येन सः, प्रमुदितार्य:- प्रमुदिता आर्याः-श्रेष्ठा येन [पक्षान्तरे- आर्यागौरी ], विनम्रतरधाराधरानुसृतपाद:- विनम्रतरः, धाराधरैः- धाराऽधिपतिभिर्नरवर्मराजादिभिः पर्वतैश्च, अनुसृता:- अनुगताः, पादाः- चरणाः प्रत्यन्त पर्वताश्च यस्य सः, त्रिपथगां कीर्ति- स्वर्गमर्त्यपातालगामिनी कीर्ति, पक्षान्तरे कीत्तिमिव त्रिपथगां- गङ्गा, दधत्- धारयन्, त्वं शैलाधिराजरमणीय:- हिमालयवन्मनोहरः, विभासि- शोभसे । चुलुक्यनृपतेः शैलाधिराजस्य च समानविशेषणैर्युक्तत्वेनोपमानोपमेयभावः प्रतिपादितः । विशेषणानां साम्यं च पूर्वप्रतिपादितदिशा स्पष्टमेव । सप्तभिश्च यतिः सर्वत्र, चतुर्थपादे च यद्यपि सप्तमाक्षरस्य पदद्वयसन्धिस्थलत्वं तथापि बहुतरकविप्रयोगानुसारमियान् दोषः सोढव्यः । 'स[1] मु[s][]त[1][1]रि[s]त्री[s]त[1]ल:[s], प्र[1] मु[1]दि[1]ता[I]यें: [s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-२२६ ॥
म्तौ न्सौ गावसंबाधा डैः ॥२३०॥ मतनसगगाः । रिति पञ्चभिर्यतिः । यथा- नंतलमाङ्क किमुत कटुरसं बाधा-, हेतुः संलीनं विषमिह सहजप्रीत्या। तेनायं मूछा विरचयति सुधारश्मिः, शङ्क निःशङ्कः सपदि विरहिलोकानाम् ॥ २३०.१ ॥