________________
२००
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २२८.] लकुक्षौ इति, नागीनां- पातालनिवासिनीनां नागस्त्रीणां, किन्नरीणां, गिरिगुहावासिनीनां किंपुरुषाङ्गनानां, पोलिन्दवामध्रुवां- कान्तारवासिनीनां पुलिन्दजातिस्त्रीणां, क्रीडागानेषु- लीलागीतेषु, ते कीर्तिज्योत्स्ना- यश:कौमुदी, पातालकुक्षौ- पातालतले, दृप्यत्- गवं वहत्, गिरेः- पर्वतस्य गुहायां- कन्दरायां, स्फूर्जत्- स्फुरत्, कान्तारमध्ये- वने, मूर्च्छत्- परिभ्रमत्, घोरं तमःगाढमन्धकारं, हन्ति- नाशयति । [s]प्य[s]त्पा[s]ता[s]ल[1]कु[s]क्षौ[s], स्फू[5]जंद[s][[1]हा[s]यां[5],गि[1]२:[s]' सप्तभिश्चयतिरिति लक्षणसंगतिः ॥ अ० २, सू० २२७ ॥
नम्रसल्गाः सिंहः ॥२२८|| नमरसलगाः । छैरिति वर्तते । यथा- समदनागेन्द्राणां कपोलविपाटने, स किल सद्योऽजिघ्रत् प्रियवदनाम्बुजम् । तदिति शक्यं चित्रं चरित्रमहाद्भुतं, हरिणपोष्टुं न सिंहविजृम्भितम् ॥ २२८.१ ।।
लक्षितक्रमेण नवमं प्रकारमाह- नम्रसल्गाः सिंहः इति । विवृणोतिनमरसलगाः इति । छरिति वर्तते इति- नगण-मगण-सगण-रगण-सगणा लघुर्गुरुश्च 1.ऽऽऽ.IIS.SIS.S.IS.' इतीहशैवर्णः कृताः पादा यस्य, सप्तभिश्च यतियंत्र तत् सिंहनामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथासमदेति, स:- सिंहः, समदनागेन्द्राणां- मत्तमहागजानां, कपोलविपाटने- गण्डस्थलविदारणसमये, सद्य:- तत्समकालमेव, प्रियावदनाम्बुजं- स्वदयिता [सिंही]मुखपङ्कजम्- अजिव्रत्- अचुम्बत्, किलेति प्रसिद्धौ । तत् इतितदेवंप्रकारं, चित्रं- विलक्षणं, चरित्रमहामृतम्- आचरणरूपमाश्चयं, सिंहविजृम्भितं- सिंहपराकान्तं, हरिणपोत:- मृगशावकः, द्रष्टुम्- अवलोकयितुम्[अपि], न शक्यं- न योग्यम् । सिंहो हि तथा विक्रमशाली धीरश्च भवति- यथा स एकतो मत्तगजस्य कपोलं भेदयति परतश्च स्वप्रियामुखं चुम्बति, वीर शृङ्गाररसयोरीदृशं योगपद्यं कर्तुं का कथा मृगपोतैः [साधारणजनः] ईदृशमाश्चर्यपूर्ण वस्तु द्रष्टुमपि न शक्यत इति भावः । अत्र सर्वत्र