________________
[अ० २, सू० २२६-२२७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
मो रौ सो ल्गौ जया ॥२२६॥ मररसलमाः । छरिति वर्तते । यथा- माद्यद्गन्धद्विपानां लसद्दशनाशनिकोडाघातः समन्ताद् विदारितसानवः। यस्योच्च: सह्यविन्ध्योजयन्तहिमालयाः, शैलाः शंसन्ति संप्रत्यपीह दिशां जयान ॥ २२६.१॥
सप्तमं प्रकारमाह-मो रौ सो ल्गौ जयेति । विवृणोति-मररसलगाः। छैरिति वर्तते इति- मगणो रगणद्वयं सगणोलघुगुरुश्च ॥.sis.sis. ..' इतीहौरक्षरैः कृताः पादा यस्य, सप्तभिश्च यतिर्यत्र तत् जयानामकं शक्करीजातिच्छन्द इत्यर्थः ।। उदाहरति- माद्यद्ग्रन्धेति, माद्यद्गन्धद्विपानां-माद्यन्तो ये गन्धद्विपा:- महाकरिणस्तेषां, लसद्दशनाशनिक्रीडाघातै:- लसन्ति- भासमानानि, दशनानि- दन्ता एव, अशनयः- वज्राणि, तेषां क्रीडाघातै:- लीलाप्रताडनैः, समन्तात्- सर्वतः, विदारितसानव:- दलितकूटाः, सह्यविन्ध्योज्जयन्तहिमालयाः- सह्यः, विन्ध्यः, उज्जन्तः, हिमालयेश्चेति स्वस्वनाम्ना ख्याताः, शैला:- पर्वताः, यस्य- राज्ञः, दिशां जयान्- दिग्विजयान्, सम्प्रत्यपि- बहुतरे काले व्यतीतेऽद्यापि, उच्चैः- उन्नतस्थानात्, शंसन्ति-कथयन्ति एतद्गजैभिन्नानि सर्वदिशां शैलाग्राणि अद्याप्यस्य सर्वदिग्विजयस्मारकाणीति भाव । 'मा[s]द्य[s][s]न्ध[s]दि[1]पा[s]नां[s],ल[1]स[5]द्द[1] श[5]ना[s]श[1]नि[s]' इति लक्षणसङ्गतिः ॥ अ० २, सू०-२२६ ॥
म्रम्यल्गा ज्योत्स्ना ॥२२७।। मरमयलगाः । छरिति वर्तते । यथा - दृप्यत् पातालकुक्षौ स्फूर्जदगुहायां गिरेर्मूर्च्छत् कान्तारमध्ये भूपाल ! घोरं तमः । नागीनां किंनरीणां पोलिन्दवामध्रुवां, क्रीडागानेषु कीतिज्योत्स्नाऽधुना हन्ति ते ॥ २२७.१ ॥
अष्टमं प्रकारमाह- म्रम्यलगा ज्योत्स्नेति । विवृणोति- मरमयलगाः । छैरिति वर्तते इति- मगण-रगण-मगण-यगणा लघुगुरू च 'sss. SIS.sss...' इतीदृशैरक्षरैः कृताः पादा यस्य, सप्तभिश्चाक्षरर्यतिर्यत्र तत् ज्योत्स्नानामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- दृप्यत्पाता