SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २२५.] "पादाघातादशोको विकसति बकुलो योषितामास्यमद्यः" इत्यादिकविसमयप्रसिद्धया सुन्दर्या आलिङ्गन-मद्य गण्डूष-पादाघातः कुरबकादिषु वासन्तपुष्पवृक्षेषु पुष्पोद्गमो भवतीति स्थिती वसन्तस्त्वदधीनसम्पदेवेति काचिच्चाटुकारिणी नायिकामाहेति । 'स[1]खि [1], भ[1]व[1]ति,भ[1] व[s]च्छले[s]ष[s]ग[s] ण्डू[s]ष[1]पा[s]दा[s]' इति लक्षणसङ्गतिः। अस्य नामान्तरमाह- नन्दीमुखीत्येके इति । अ० २, सू०-२२४ ।।। म्रौ तौ गौ लक्ष्मीः ॥२२५॥ मरततगगाः । छरिति वर्तते । यथा- मामद्वैतानुरागां मान्यतेऽसौ तृणाये त्येवं दीर्भाग्यदुःखोन्मूलनं चिन्तयंती। मन्ये त्वत्खड्गधारां तन्द्रतं कर्तुकामा, कामं सिद्धेन्द्रसूनो सेवते राजलक्ष्मीः ॥ २२५.१ ॥ षष्ठं प्रकारमाह- म्रौ तौ गौ लक्ष्मीरिति । विवृणोति- मरततगगाः। छरिति वर्तते इति- मगण-रगणो तगणद्वयं गुरुद्वयं च 'sss.sis.sst.ssi.ss.' इत्येवंरूपर्वणः कृताः पादा यस्य सप्तभिश्च यतिर्यत्र तत् लक्ष्मीनामकं शक्करीजातिच्छन्द इत्यर्थः॥ उदाहरति- यथा-मामद्वैतेति, हे सिद्धेन्द्रसूनो !कुमारपाल !, राजलक्ष्मी:- राज्ञां लक्ष्मीः - श्रीः, 'असौ- कुमारपालः, अद्वैतानुरागाम्- अनन्यानुरक्तां मां, तृणाय- तुच्छां, मन्यते- जानाति', इत्येवं चिन्तयन्ती- ध्यायन्ती, दौर्भाग्यदुःखोन्मूलनं-दौर्भाग्येन यद् दुःखं-कुमारपालकृतावहेलनोत्थं कष्ट, तस्य उन्मूलनं- नाशसाधनम् । अत्र सप्तमो वर्णो यतिस्थानं, तत् परपदेन संहितमिति यतिभङ्ग इव भाति, तद्वतम्- असिधाराव्रतं, कर्तुकामा- आचरितुमिच्छन्ती, त्वत्खड्गधारां- तवासिधारां, कामम्अत्यन्तं, सेवते- भजते इति मन्ये । तव खड्गेन राज्ञां लक्ष्मीः स्ववशमानीयत इति दृष्टम्, तत्र हेतुश्चायमेव यत् सा त्वत्कृतां निजावहेलनां दृष्ट्वा कठिनतरमसिधाराव्रतं कर्तुकामेव तवासिधारा सेवत इत्युत्प्रेक्षे, इति भावः । 'मा[s] म[5]a[s]ता[s]नु[1] रा[s]गां[s], म[5]न्य[1]ते[5]सौ[s], [1]णा[s] ये[s] इति लक्षणसंगतिः ।। अ० २, सू०-२२५ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy