________________
[अ० २, सू० २२४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१६७ लगा इति । छैरिति वर्तते इति च, नगणद्वयात् परतो मगण-यगणी लघुगुरुश्च ॥.m.sss.ISS.15.' इतीदृशैरक्षरैः कृता: पादा यस्य तत्, सप्तभिश्च यतिर्यत्र तत् करिमकरभुजानामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरतियथा- रणभुवीति, हे नृपते !- राजन् !, रणभुवि- संग्रामाङ्गणे, रिपुमटकरटिप्रोन्माथिना- शत्रुसैन्यस्थगजमर्दकेन, ते- तव, निस्त्रिंशदण्डेन- खड्गयष्टया, जलनिधिजठरे- समुद्रोदरे, पाठीनकूर्मावलीकरिमकरभुजा-पाठीनोमत्स्यविशेषः, कूर्म:- कमठश्च, तयोरावली- समूहः, करिणो- गजाः, मकरायादोविशेषाश्च, तान् भुङ्क्ते इति तेन, तेजस्विना- दीप्तिमता, और्वेण- वडवानलेनेव, जम्भितं- स्वोत्कर्षः प्रकाशितः । समुद्रे वडवानल इव समराङ्गणे तव निस्त्रिंशश्वकासांचक्रे इति भावः । 'र[1] [1] [1]वि[i], नृ[1]प[1]ते[s], नि[s]स्त्रि[s]श[i][5]ण्डे[s]न[1]ते[s]' इति लक्षणसमन्वयः ॥ अ० २, सू० २२३. ॥
नौ तौ गौ वसन्तः ॥२२४॥ ननततगगाः । छरिति वर्तते । यथा- सखि ! भवति भवच्छलषगण्डूषपादतहतिभिरियं यत्प्रसूनप्रसूतिः । कुरबकबकुलाशोकमुख्यमाणां, तदिह ननु तवायत्तसंपद् वसन्तः ॥ २२४.१ ॥ नन्दीमुखीत्येके ॥ २२४.१ ॥
पञ्चमं प्रकारमाह- नौ तौ गौ वसन्तः इति । विवृणोति- नन-ततगगाः इति । छरिति वर्तते इति च । नगणद्वयात्परतस्तगणद्वयं लघुगुरू च '.in.ssi.ss1.15.' इतीदृशैर्वणः कृताः पादा यस्य, सप्तभिश्च यतिर्यत्र तत् वसन्तनामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- सखि ! भवतोति- हे सखि ! यत्- यस्मात् भवच्छ्ले ष-गण्डूष-पादप्रतिहतिभि:- भवत्याः श्लेषः- आलिङ्गन, गण्डूष:- निष्ठीवनं, पादप्रतिहृतिः- चरणप्रहारः, तैः कुरबकबकुलाशोकमुख्यद्रुमाणां- कुरबकश्च बकुलश्च अशोक ? चेति ते मुख्याः प्रधानानि येषां तेषां द्रुमाणां- वृक्षाणाम्, इयं- दृश्यमाना, प्रसूनप्रसूतिः- पुष्पोद्गमः, भवति- जायते, तत्- तस्मात् कारणात्, इह- जगति, वसन्तः, तवायत्तसंपत्- त्वदधीनलक्ष्मीकः, ननु निश्चितम् । अयमाशयः