________________
१९६
सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ० २, सू० २२२ - २२३.]
अलोला - स्थिरा भवति । ये समाधी स्थिराः सन्त आत्मतत्त्वं चिन्तयन्ति ते सुखेन संसारसागरं तरन्तीति भावः । आ [s]त्मा [S]रा[S]म [1] प [1] दै[S]क[1] व्या [S]पा [5] रा [S]भि[1]र [1] ता [s]नां[s]' [ सप्तभिश्च यतिः ] इति लक्षणसंगतिः ॥ अ० २, सू०-२२१ ॥
नौ नौ लगौ प्रहरणकलिता ॥२२२॥
ननमनलगाः । छरिति वर्तते । यथा- तव गुणनिकरैरपि दृढविपुलं, रहिसमुदयः सपदि नियमितः । नरपतितिलक त्वमिह भुजलतां प्रथयसि किमसिप्रहरणकलिताम् ।। २२२.१ ॥
"
तृतीयं प्रकारमाह- नौ नौ लगौ प्रहरणकलितेति । विवृणोति - नन-भ-न लगाः । छैरिति वर्तते इति - नगणद्वयात् परतो भगणनगणौ लघुगुरुश्च ।।। ।।। ।।।।।. 5. ' इतीदृशंरक्षरः कृताः पादा यस्य तत्, सप्तमिश्च वर्णैर्यतिर्यत्र तत्, प्रहरणकलितेतिनामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - तव गुणनिकरैरिति, हे नरपतितिलक ! - राजश्रेष्ठ !, दृढविपुलै : - दृढ :- स्थास्नुभिः, विपुलैः- आयामवद्भिश्च तव - भवतो, गुणनिकरै: - गुणा: - शौयादयः, गुणाः- रज्जव इव तेषां समूहैः, अहितसमुदयःशत्रुसमूहः, सपदि - शीघ्र, नियमितः- नियन्त्रितः, [ ततः ] त्वं असिप्रहरणकलितां - खड्गप्रहारशालिनी, भुजलतां - बाहुवल्लीम्, इह जगति, कि- कस्मै प्रयोजनाय प्रथयसि - प्रख्यापयसि । यदि असि प्रहारिण्या भुजलतायाः कार्यं रिपुनियनं गुणैरेव कृतं तर्हि भुजलताख्यातिर्व्यर्थं वेति भाव: । त [s] [ 1 ], गु[1] [ 1 ]नि [1] []₹[s]र[1]पि[1], दृ[1] ढ[1]वि[1]पु[1] लै: [s] ' इति सप्तमिश्च यतेः सत्त्वादपि लक्षणसमन्वयः ॥ अ० २, सू० - २२२ ॥
यो गौ करिमकरभुजा ॥२२३॥
ननमयलगाः । छेरिति वर्तते । यथा- रणभुवि नृपते ! निस्त्रिंशदण्डेन ते, रिपुभटकरटिप्रोत्माथिना जृम्भितम् । जलनिधिजठरे पाठीनकूर्मावली करिमकरभुजोर्वेणेव तेजस्विना ।। २२३.१ ।।
चतुर्थं प्रभेदमाह - नौ म्यौ लगौ करिमकरभुजेति । विवृणोति - ननमय