SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २२१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १६५ ___ अतः परं चतुर्दशाक्षरपादां शक्करीजाति वर्णयितुमुपक्रमते- शक्कर्यां नो र्सी भगावपराजिता छैरिति । विवृणोति- ननरसलगाः। छैरिति सप्तभिर्यतिरिति- नगणद्वयं रगण-सगणी लघुगुरु च .m.sis.s.is.' इत्येवंरूपवर्णः कृताः पादा यस्य तत्, सप्तभिश्च यतिर्यत्र तत् अपराजितानामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- शशधरवदनमिति, शशधरवदनंचन्द्राननं, कुशेशयलोचनं- शतपत्रसमाननेत्रं, शुचिरुचिरुचिरम्- उज्जवलकान्तिभासितम्, ललाटतटस्थितं- स्वस्य सदा तं प्रति प्रह्वत्वेन स्वललाटप्रान्ते वर्तमानमिव, विशदकरुणया अधिवासितं- निर्मलदयया भावितं, जिनं- देवम्, अनुसरताम्- आनुकूल्येन सेवमानानां जनानाम्, ऋद्धयः- सम्पदः, अपराजिताः- परानभिभवनीयाः, भवन्ति- जायन्त इत्यर्थः । श[1][][] [1] व[1]द[1] नं [1], कु[1] [5] श[1]य[1]लो[s]च[s]नं [s]' [सप्तभिश्च यतिः] इति लक्षणसमन्वयः ॥ अ० २, सू०-२२० । म्सौ म्मौ गावलोला ॥२२१॥ मसमभगगा: । छैरिति वर्तते । यथा- आत्मारामपदकव्यापाराभिरताना, संसाराधिरगाधस्तेषां गोष्पदमात्रम् । अन्तस्तत्त्वसमाधेः प्राणायामनिरोधान, नासावंशनिषण्णा येषां दृष्टिरलोला ॥ २२१.१ ॥ द्वितीयं प्रभेदमाह- म्सौ म्भौ गावलोलेति । विवृणोति- मसमभगगाः । छरिति वर्तते इति- मगण-सगण-मगण-भगणा गुरुद्वयं च 'sss.us. sss.sil.s' इतीदृशंरक्षरः कृताः पादा यस्य तत्, सप्तमिश्च यतिर्यत्र तत् अलोलानामकं शक्करीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- आत्मारामेति, आत्मारामपदैकव्यापाराभिरतानाम्- आत्मनि- स्वस्वरूप एव, आ-समन्ताद् रमणम्- आत्मारामः, तत् च पदं- स्थानं, तत्र मनसः स्थितिविशेषः, तस्य य एको- मुख्यो व्यापारः, तत्राभिरतानां लग्नानां, तेषां- मनुजधुरीणानां कृते, अगाधः- दुस्तरः, संसाराब्धि:- जगत्समुद्रः, गोष्पदमात्रं- गवां पदचिह्नमिव सुतरम्, तेषां केषां? येषां- जनानाम्, अन्तस्तत्त्वसमाधे:- अन्तस्तत्त्वे- आभ्यन्तररहस्ये वस्तुनि, समाधेः- चितकाग्र्यात्, प्राणायामनिरोधात्- निरोघाख्यकुम्भकप्राणायामात्, नासावंशनिषण्णा- नासिकाग्रभागस्थिता, दृष्टिः,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy