SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९४ सवृतिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-२१६-२२०.] नीगौ त्वरितगतिः ॥२१॥ नगणचतुष्टयं गुरुश्च । यथा- नृवर ! तव धनुरधिगतगुणं, ध्वनति च युधि भयवशतरला । कलयति च पिचुनिचयतुलनां त्वरितगतिररिनृपतिपृतना ॥ २१६.१ ॥ लघुगतिश्चपला वेत्यन्ये ॥ २१६.१ ॥ १३॥२६ ॥ लक्षितेषु षड्विशं प्रकारमाह- नीगौ त्वरितगतिरिति । विवृणोतिनगणचतुष्टयं गुरुश्चेति- “समानेनैकादिः" [ १-४ ] इति नियमेन नीत्यस्य नगणचतुष्टयवाचकत्वादिति भावः, तथा च .....' इत्येवं रूपवर्णः कृताः पादा यस्य तत् त्वरितगतिनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- नृवरेति, हे नृवर !- मनुजश्रेष्ठ !, अधिगतगुणम्- आरूढज्यं, तव- भवतः, धनु:- कोदण्डं, युधि- सङ्ग्रामे, ध्वनित च- शब्दं करोति, किंच, अरिनृपतिपृतना- शत्रुराजबलं, भयवशतरला- दरेण चञ्चला, त्वरितगति:- शीघ्रगमना सती, पिचुनिचयतुलनां- तूलसमूहसमतां, कलयति चधारयति च, तव धनुषि अधिज्ये सत्येव [ तत्समकालमेव ] तव रिपवस्तूलानीव यतस्ततः पलायन्ते इति भावः । अस्य नामान्तरे आह- लघुगतिश्चपला वेत्यन्य इति । 'नृ[1][i][i], त[1][i], ध[i][i]र[1]धि[1] ग[1]त[1][[]] [s]' इति लक्षणसमन्वयः ।। अ० २, सू०-२१६ ॥ ___ इत्थमतिजगतीजातेः प्रसिद्धतराः षड्विशतिभेदा लक्षिताः, प्रस्तारगत्या तु त्रयोदशाक्षरपादस्य वृत्तस्य ८१९२ भेदा भवन्ति । तदुक्तं भरतेन "शतमष्टी सहस्त्राणि द्वयधिका नवतिः पुनः। जगत्यामतिपूर्वायां वृत्तानां सर्वशो भवेत् ॥” इति [भ० ना० शा० १५५६] ॥ १३-३६ ॥ ॥ इत्यतिजगती॥ शक्कर्यां नौ सौ ल्गावपराजिता छैः ॥२२०॥ ननरसलगा: । छैरिति सप्तभिर्यतिः । यथा- शशधरवदनं कुशेशयलोचनं, शुचिरचिरुचिरं ललाटतटस्थितम् । विशवकरुणयाधिवासितमृद्धयो, जिनमनुसरता भवन्त्यपराजिताः ॥ २२०.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy