SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २१८. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १६३ उदाहरति- यथा - त्रिदिवमिति, तदा- तस्मिन् समये, सुभटैः - वीरैः, समिद्वंसुधासु - युद्धभूमिषु, करवालघातै:- खड्ग प्रहारैः, त्रुहिताः - छिन्नाः, करिणांहस्तिनां दन्ताः, त्रिदिवं - स्वर्गं ब्रजद्भिः - गच्छद्भि: [ सुभटैः ], जवाद्वेगात्, निर्दलिता:- भग्नाः, दिविषत्पतेः- इन्द्रस्य, पुर:- नगर्याः, अर्गला इव - कपाटपिधानदण्डा इव, चकाशिरे- शुशुभुः । संग्रामे रिपुसैन्यं निहत्य तन्तानां च दन्तांरिछत्वा स्वगं प्रति वेगाद्गच्छद्भिर्वीरैर्भग्नाः स्वर्गस्यार्गला इवेह करिदत्ताः प्रतिभान्तीत्यर्थ: । 'त्रि [1] दि[1]वं [s], व्र[1]ज [s]द्भिः[5], दि [ 1 ]वि [ 1 ]ष [s]त्प [ 1 ] ते: [ 5 ], पु[1]र: [ 5 ] ' इति लक्षणसमन्वयः ॥ अ० २, सू०-२१७ ॥ नौ सौ गः कमलाक्षी ॥२१८॥ यथा- विरचितनिबिडतरोत्कलिकाभिः, कमिव नवमदजुषं न विदध्युः । सपदि शरदि सरितः कलहंसप्रकटितगतिललिताः कमलाक्ष्यः ।। २१८.१ ।। लक्षितेष्वस्य भेदेषु पञ्चविंशं प्रकारमाह- नौ सौ गः कमलाक्षीति- नगणद्वयं सगणद्वयं गुरुश्च ।।। ।।। ।ISIS. S. ' इतीदृशैरक्षरः कृताः पादा यस्य तत् कमलाक्षीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- विरचितेति, शरदि - शरहतो, कलहंसप्रकटितगतिललिता :- कलहंसैः - मरालैः, प्रकटितानि गतिललितानि - गमनक्रीडितानि यासु ताः, कमलाक्ष्य:- कमलान्येवाक्षीणि यासां तथाभूताश्च सरितः - नद्यः, विरचितनिबिडतरोत्कलिकाभिःनिर्मित घनवीचिभिः, कमिव - जनं, सपदि शीघ्र, नवमदजुषं- नूतनमत्तभावभाजिनं, न विदध्युः - न कुर्युः, अपि तु सर्वमेवजनं तथाविधं कुर्युरिति । कमलाक्षीति विशेषणमहिम्नाऽक्षिप्ताः कामिन्योऽपि कलहंसवत् प्रकटितानि गतिललितानि याभिस्तथाभूता भवन्ति, ताश्च विरचितनिबिडत रोत्कलिकाभि:- कृतघनरणरणकैः, कमिव जनं शरदि सपदि नवमदजुषं न विदयुरिति कवेराकूतम् || 'वि[1]र[0]चि[0]त[1]नि [1] बि[1]ड [1]त[1]रो [s]त्क [ 1 ]लि[1] का [s]भि: [s] ' इति लक्षणसमन्वयः ॥ अ० २, सू० - २१८ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy