SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सृवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २१६-२१७.] म्तौ स्रौ गः कोदुम्भो ङः ॥ २१६ ॥ मतसरगाः । डैरिति पञ्चभिर्यतिः । यथा- लक्ष्मीः कान्ताभिविकचनेत्रोत्पलामिस्ताम्बूलं पत्रः परिणतं वनवासैः । काव्यं कोदुम्भाभिधनवच्छन्दसे वं चेतो हारित्वं भजति वैदग्धभाजाम् ॥ २१६.१ ॥ 1 १६२ लक्षितवृत्तानां क्रमानुसारं त्रयोविंशं प्रकारमाह- म्तौ खौ गः कोदुम्भो ङेरिति । विवृणोति - मतसरगाः । ङेरिति पञ्चमितिरिति - मगणतगण-सगण - रगणा गुरुश्च SSSSSI.VIS.SIS.S.' इतीदृशैरक्षरः कृताः पादा यस्यतत्, पञ्चभिश्च यतियंत्र कोट्टुम्भनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - लक्ष्मीः कान्ताभिरिति, लक्ष्मीः- धनधान्यादिसम्पत्, वि. कचनेत्रोत्पलाभिः - विकचे - विकसिते, नेत्रोत्पले - नयनकुवलये यासां ताभिः कान्ताभिः, चेतोहारित्वं- हृदयहारिणीत्वं भजते- प्राप्नोति, ताम्बूलं - चूर्णपूगादिसहितं नागवल्लीपुटकं, परिणतैः- परिपक्क, वानवासः - वनवासदेशोद्भवैः, कोङ्कणदेशात् पूर्वो भागो वनवासदेशः, तथा च रतिरहस्ये - “सर्वंसहा मध्यमवेगभाजस्त्रियो रमन्ते वनवासदेश्या:" [ ५।१८ ], पत्र:- दलैः, चेतोहारित्वं भजति, वैदग्ध्यभाजां - काव्यकरणचातुरीमताम् इदं काव्यं, कोदुम्भामिधनवच्छन्दसा - कोदुम्भनामकनूतनवृत्तेन चेतोहारित्वं भजत इत्यन्वयः । 'ल [s]क्ष्मीः [s] का [s] न्ता [s] भि: [s], वि[1][1]च [1] [5] त्रो[5] त्प[s]ला [s]भिः [s]' इति लक्ष्णसंगतिः ॥ अ० २, सू० - २१६।१ ॥ , स्यो स्जौ गः सुदन्तम् ॥ २१७ ॥ सयस जगाः । यथा - त्रिदिवं व्रजद्भिदिविषत्पतेः पुरः सुभटैर्जवान्निर्दलिता इवार्गलाः । करवालघातं त्रुटितास्तदा समिद्वसुधासु दन्ताः करिणां चकाशिरे ।। २१७.१ ॥ चतुवि प्रकारमाह- स्यौ स्जौ गः सुदन्तम् इति । विवृणोति - सयसजगाः इति - सगण - मगण- सगण जगणा गुरुश्च '11S. ISS. IS.ISI. S. ' इतीहरौ - रक्षरैः कृताः पादा यस्य तत् सुदन्तनामकमतिजगतिजातिच्छन्द इत्यर्थः ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy