SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २१५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १६१ प्रसिद्धिमनुरुध्य रणसमुद्रोत्थितया लक्ष्म्या स्वयं वृतं त्वां विद्वजना यत् पुरुषोत्तमं कथयन्ति तदुचितमेवेति भावः । 'वि[s][5][1]] [5] रु[1]चि[1] त[1]मु[1]दी[5]र्य [1]ते[5], स[1]दा[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-२१४ ॥ त्भौ जौ गो अभ्रकम् ॥२१५॥ तभजजगाः । यथा- अभ्यस्यतीव रसवादकलामयं सान्ध्यः क्षणोऽभिमतचन्द्रमहोदयः । तारौषधिप्रकटनाभिरतः सखे ! प्रोद्दीपयन विविधवर्णमिहाभ्रकम् ॥ २१५.१ ॥ द्वाविशं प्रभेदमाह- त्मौ जौ गो अभ्रकमिति । विवृणोति-तभजजगाः इति । तगण-भगणी जगणद्वयं गुरुश्च ‘ss1.51.11.5.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् अभ्रकं नाम अतिजगतीजातिच्छन्द इत्यर्थः। उदाहरतियथा- अभ्स्यति वेति, हे सखे !- मित्र !, इह- अस्मिन् समये, अभिमतचन्द्रमहोदयः- अमित:- इष्टः, चन्द्रस्य- शशिनः, महोदयो यस्य, पक्षे- अभिमत:- इष्टः, चन्द्रस्य- सुवर्णसम्बन्धी, महोदयः- महाचन्द्रोदयनामा रसो यस्य स:, तारौषधिप्रकटनाभिरत:- तारा:- नक्षत्राण्येव ओषधयः, तेषां प्रकटनेप्रकाशने, अभिरत:- लग्नः पक्षे तारं- रुप्यमेव, ओषधि:- भैषज्यं, तस्य प्रकटने-प्रकाशने, अभिरतः- लग्नः, विविधवर्णम्- अनेकरूपम्, अभ्रकमेघ, पक्षे रसविशेषं स्वनाम्ना प्रसिद्धम्, प्रोद्दीपयन्- प्रकाशयन्, पक्षे वह्निना संस्कुर्वन्, अयं- दृश्यमानः, सांध्यः- सायंकालिकः, क्षणः- कालकला, रसवादकलां- रसायनप्रक्रियाम्, अभ्यस्यतीव- शीलयतीवेत्युत्प्रेक्षा । यथा रासायनिकज्ञानाभिलाषी महाचन्द्रोदय निर्माणेच्छु रूप्यादिसंस्कारं करोति तथा सान्ध्यक्षणस्य चन्द्रमहोदयः, ताराप्रकाशश्चेष्ट इति तदर्थं रसवैद्यः अभ्रकं भस्मीकर्तुं प्रोज्वालयति, सान्ध्यक्षणोऽपि नानावर्णमेघ प्रकाशयति, इत्युमयोः साधर्म्मदृष्टेः सान्धयक्षणस्य रसवाद कलशिक्षणमुत्प्रेक्ष्यते । 'अ[5]भ्य[5] स्य [1]ती[5]व[1], [1]स[1]वा[5]द[1]क[1]ला[s]मयं[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-२१५॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy