SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १६० ___ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २१४.] न्द्रियस्य साधोः, [कृते], तृणम्- अतिदुर्बलः, असि- भवसि, अयं त्वां तृणमिव मन्यत इति भावः । ते अन्ये- तथा भूताः परे जनाः, क्वचिदपि-क्वापि भवेयुः, 'येषां मनसि- चित्ते, कनकगौरी- काञ्चनधवला, मृगनेत्रा- हरिणनयना [कामिनी], निवसति खलु- निश्चितं वासं विदधाति । अयमाशयः- काम:कुसुमबाण इति प्रसिद्धः, स यदि तीक्ष्णशस्त्रोऽपि स्यात् तथापि निगृहीतेन्द्रिणां यतिनां किमपि कर्तुं न शक्नोति किमत कुसुमबाणतादशायाम् । ये च केचन कनकगौरी कामिनीमेव हृदये कुर्वन्तस्तिष्ठन्ति ते यत्र वचन भवेयुः, तल्लक्ष्यतां- कामबाणवेध्यतां यास्यन्ति, न यतिन इति । 'यति' शब्द इकारान्तो मुन्यादिषु प्रसिद्धः, 'यतिन्' इति च इन्ननन्तः, यमनं- यतमिति भावक्तान्तान्मत्वर्थीयेनेना सिद्धोऽन्य एवेन्द्रियनिग्रहशालिवाचक इति तस्यैवेह प्रयोगः । 'न[1]नु[1], भ[1]व[1], कु[1]सु[1]म[5]षो[5], नि[1]शि[1]त[1]श[5]स्त्रः [s]' इति लक्षणसमन्वयः ।। अ० २, सू०-२१३ ॥ त्मौ स्जौ गो लक्ष्मीः ॥२१४॥ नभसजगाः । यथा- विद्वद्गणरुचितमुदीर्यते सदा सिदेशनन्दन! पुरुषोत्तमो भवान् । य त्वां स्वयंवरविधिनाभ्युपेयुषी लक्ष्मीरियं रणमकराकरोत्थिता ॥ २१४.१. ॥ लक्षितक्रमेण एकविशं प्रकारमाह- त्मौ स्जो गो लक्ष्मीरिति । विवृणोति-तमसजगाः इति- तगण-भगण-सगण-जगणा गुरुश्च 'ss.s.s. ।s.s.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् लक्ष्मीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-- विद्वद्रणैरिति, हे सिद्धेशनन्दन !- सिद्धराजसूनो !, भवान् पुरुषोत्तम:- पुरुषेषु, उत्तम:- श्रेष्ठः, अथ च विष्णुः [इति], विद्वद्गणैः- विदुषां समूहैः, सदा- सर्वदा, उचितं- योग्यम्, उदीर्यते- कथ्यते, यत्- यस्मात्, रणमकराकरोत्थितारण:- संग्राम एव मकराकरः- समुद्रः, तस्मादुत्थिता- निर्गता, इयं- प्रत्यक्षमवलोक्यमाना, लक्ष्मी:- [राजलक्ष्मीः], स्वयंवरविधिना- स्वेच्छास्वीकारप्रकारेण, त्वां- भवन्तम्, अम्युपेयुषी- समुपगता । समुद्रादुत्थिता लक्ष्मीः पुरुषोत्तमं [विष्णुं] स्वयं वृतवतीति पुराण
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy