________________
[अ० २, सू० २१२ - २१३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१८६
मस्थितिभाजाम् । कुरुते यतः प्रथमतोऽपि धनर्तुः कुटजप्रसूनरजसा जगदन्धम् ।। २१२.१ ।। भ्रमर इत्यन्यः ।। २१२.१ ॥
ऊनविंशं प्रकारमाह- स्जौ सौ गः कुजटमिति । विवृणोति - सजससगाः इति - सगण - जगणी समणद्वयं गुरुश्च ।।5. SI. ।। 5. ।।5.15.S. ' इतीदृशेरक्षरैः कृताः पादा यस्य तत् कुटजनामकमतिजगतीजातिच्छन्द इत्यर्थः । यथा परममिति, घनर्तु:- मेघसमयः, परमं - चरमं प्रकर्षम् - उत्कर्षम्, अधिरुह्य - सम्बाय्य, प्रवासविषमस्थिति भाजां - प्रवासे- गृहाद् दूरस्थाने निवासे, विषमां कठिनां, स्थितिम् - अवस्थां भजन्तीति तादृशानां जनानां, किमिव - अवर्णनीयं तत्तदुःखं विदध्यात् - कुर्यात्, यतः- यस्मात् कारणात्, प्रथमतः- प्रारम्भसमये अपि, कुटजप्रसूनरजसा- कुटनानां नीपानां प्रसून र-जसा- पुस्परागेण, जगत्- संसारम्, अन्धं - दृष्टिविकलं, कुरुते - विदधाति । येनादावेव सर्वं जगदन्धीकृतं स स्वप्रकर्षसमये स्वत एव विषमस्थितौ पतितानां पान्यानां कृते कानि कानि दुःखानि दद्यादिति कथं वर्णयितुं शक्यत इति भावः । प [ 1 ] र [1] [5], प्र [1] का [s] [ 1 ]म []धि[1] रु[5] ह्य[+] वि[1] द [s] ध्यात्[s] ' इति लक्षणसमन्वयः । २१२।११ अस्य नामान्तरमाह - भ्रमर इत्यन्य इति ॥ अ० २, सू० २१२ ॥
1
नौ सौ गो गौरी ॥२१३॥
ननतसगाः । यथा - ननु भव कुसुमेषो ! निशितशस्त्रस्तृणमसि यतिनोऽस्य प्रशमवृत्तेः । क्वचिदपि खलु तेऽन्ये मनसि येषां निवसति मृगनेत्रा कनकगौरी
।। २१३.१ ।।
विशं प्रभेदमाह - नौ सौ गो गौरीति । विवृणोति-न-न-त-स-गा इति - नगणद्वयं तगण - सगणी गुरुश्च ।।। ।।।.SSI.11S.S.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् गौरीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - ननु भवेति- हे कुसुमेषो ! - पुष्पबाण !, निशितशस्त्रः - तीक्ष्णायुधः, भवभूयाः, ननु इति कोमलामन्त्रणे, प्रशमवृत्ते - अन्तरिन्द्रियनिग्रहशीलस्य, अस्य यतिन: - जिते