SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १८८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २११-२१२.] भूयात्, [इति वरं देहीति शेषः] नाहमोहिकं राज्यं नापि स्वाराज्यमिच्छामि, केवलं भवदीगुणानुवादेन समयं या पायितुमिच्छामिति भावः । 'व[1] सु[1]धा [5]धि[1]प[5]त्य[1]मि[1]ह[1], दे[5]व[5], ना[5][1]ये[s]' इति लक्षणसङ्गतिः ।। अस्य नामान्तरण्याह-कनकप्रभा, जया, सुमङ्गलोति केचिदाहरिति । मनोवतीति भरत इति च ॥ अ० २, सू०-२१० ।। न्जौ सौ गो मदललिता ॥२११।। नजनसगाः । यथा- कलितकलङ्कशितिसिचयसंपत्, करदलितेद्धतिमिरयमुनाम्बुः । प्रथयति गौरवपुरमृतरश्मिर्मुशलधरस्य समदललितानि ॥ २११.१. ॥ अष्टादशं प्रकारमाह- जौ सौ गो मदललितेति । विवृणोति- नजनसगाः इति- नगण-जगण-नगण-सगणा गुरुश्च 1.51.11.15.5.' इतीदृशैरक्षरः कृताः पादा यस्य, तत् मदललितानामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- कलितेति- कलितकलङ्कशितिसिचयसम्पत्कलिता- स्वीकृता, कलङ्कमिव शितिसिचयस्य- नीलवरस्त्रस्य, सम्पत्लक्ष्मीर्यन, करदलितेद्धतिमिरयमुनाम्बु:- करैः-किरणैः [ हस्तैश्च ], दलितंदूरीकृतम्, इद्धतिमिरमिव- घोरान्धकार इव, यमुनाम्बु- कालिन्दी [नील] जलं येन सः, मुसलधरस्य- बलभद्रस्य, गौरवपुरमृतराश्मि:- धवलशरीराभिन्नश्चन्द्रः, समदललितानि- मत्तक्रीडितानि, प्रथयति- प्रख्यापयति । अत्र बलदेवस्य गौरवपुषः चन्द्रत्वेन रूपणं प्रदर्शितम्, चन्द्र कलङ्कमिव तस्य शरीरे नीलबस्त्रमस्ति, चन्द्रोऽन्धकारं दूरीकरोति एतद्वपुरपि नीलं यमुनाजलं दूरीकरोतीति कथा पुराणेषु प्रसिद्धा, तथा च चन्द्रं दृष्ट्वा बलभद्रस्य मत्तक्रीडितानि स्मृतिपथमवतरन्तीति चन्द्रस्तत्प्रथने कतृत्वं प्रप्त इवेति रूपकग - त्प्रेक्षा। 'क[1]लि[1]त[1]क[i][5]क[1]शि[1]ति[1]सि[1]च[1]य[i]सं [5]पत्[s]' इति लक्षणसङ्गति ॥ अ० २, सू० २११ ॥ स्जौ सौ गः कुटजम् ॥२१२॥ सजससगाः । यथा- परमं प्रकर्षमधिरुह्य विद्ध्यात्, किमिव प्रवासविष
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy