________________
[अ० २, सू० २१०] सवृत्तिच्छन्दोऽनुश शनप्रद्योते
१८७ षोडशं प्रभेदमाह-न्सौ तौगो विद्युन्मालिकेति । विवृणोति- नसततगा इति- नगण-सगणो तगणद्वयं गुरुश्च 1.15...5.' इतीहशरक्षरः कृताः पादा यस्य तत् विद्युन्माला नामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरतियथा- घनतमसीति- प्रावृषा- वर्षतुना, घनतमसि- मेघकृतेऽन्धकारे निबिडेऽन्धकारे वा, नष्टान्- पलायितान्, निखिलपथिकान्- सर्वान् पान्थान्, संहारबुद्धया- मारणेच्छया, अत्र क्षणे- अस्मिन् समये, द्रष्टुम्- अवलोकयितुम्, स्फुरितरुचिविद्युन्मालिकाव्याजतः- स्फुरिता- परित: चञ्चूर्यमाणा, रुचिः- कान्तिर्यस्यास्तादृश्याः, विद्यन्मालिकायाः-तडित्पङ्क्तेः, व्याजत:छलेन, दीपिका:- प्रकाशज्वालाः, परिगृहीता:- संचिताः, बत इति खेदे, 'सर्वे यूयं गृहं गच्छत' इति प्रावृष आज्ञामवर्षीय इतस्ततः प्रवास एव छन्नान् पथिकानपराधिनो मारयितुमन्धकारबहुले घनसमये स्फुरत्सौदामिनीमिषेण दीपिकाः प्रसार्य सर्वान् पान्थानन्वेषयितुं प्रवृत्ता प्रावृडिति भावः । 'घ[1]न[1]त[1]म[1]सि[1], न[s]ष्टान्[s], द्र[s]ष्टु[s]म[s]त्र[s]क्ष[s]पो[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-२०६ ।।
स्जौ स्जौ गो नन्दिनी ॥२१०॥ सजसजगाः यथा- वसुधाधिपत्यमिह देव! नार्थये, जिननाय! नापि पुरुहूतसंपदम् । वरदोऽसि चेन्मम तदा सदा मतिर्भवताद् भवद्गुणगणाभिनन्दिनी ॥२१०.१. ।। कनकप्रमा, जया, सुमङ्गलीति च केचिदाहुः । मनोवतीति भरतः ॥२१०.१॥
लक्षितक्रमेण सप्तदशं प्रभेदमाह- स्जो स्जौ गो नन्दिनीति । विवृणोतिसजसजगाः इति- सग्ण-जग्ण-सगण-जगणा गुरुश्च 'I.ISI.IIS.Is1.5.' इतीदृशंरक्षरैः कृताः पादा यस्य त नन्दिनीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-वसुधाधिपत्यमिति, हे जिननाथ!-देव!, इहलोके, वसुधाधिपत्यं- भूमीश्वरत्वं, न अर्थये- न याचे, पुरुहूतसम्पदं- देवेन्द्रसम्बिन्धिनी तत्सदृशीं वा, सम्पदं- सम्पत्तिमपि, न अर्थये, चेत्- यदि, वरदःसमीहितप्रदाता, असि, तदा मम- तव सेवकस्य, मतिः- बुद्धिः, सदा- सर्वस्मिन् काले, भवद्गुणगणाभिनन्दिनी- श्रीमद्गुणगणस्तविका, भवतात्