________________
१८६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २०८-२०६.] वपिता कोमलाङ्गी, हे सखे !- मित्र!, चन्द्रलेखा- शशीकला इव, ते- तव, विरहतमसा- वियोगान्धकारेण, राहुरूपेण, पीयते- निगीर्यते । काचित् दूती नायकं प्रति नायिकाया विरहदुःखं निवेदयन्ती कथयति- तव विरहेण सा तथा क्षीयते यथा राहुणा कृष्णपक्षान्धकारेण वा चन्द्र लेखेति त्वरितं तां सम्भावयेति । सु[1]भ[1]ग[1] सु[1] ख[1][5]ब[5]ध[1] नं [sलो[s][1] ना[s]नां[s] इति लक्षणसंगति ।। अ० २, सू०-२०७ ।।
न्सौ जो गो लयः ॥२०८॥ ' नसजजगाः । यथा- त्वमसि शरणं प्रसीद जगत्पते ! वितर सुतरां ममेह समीहितम् । चरणकमले जिनेश्वर ! तावके, भवतु मनसश्चिरं परमो लयः ॥ २०८.१॥
पञ्चदशं प्रभेदमाह- सौ जो गो लयः इति । विवृणोति- नसजजगाः इति । नगणः सगणो जगणद्वयं गुरुश्च .II.SI.I.S.' इतीदृशैरक्षरः कृताः पादा यस्य तत् लयनामकमतिजगतीजातिच्छन्द इत्यर्थः। उदाहरति- यथात्वमसोति-हे जगत्पते !- लोकेश !, जिनेश्वर !-जिनप्रधान !, त्वं शरणंरक्षास्थानम्, असि- भवसि, इह- संसारे, मम- तव भक्तस्य, समीहितंवाञ्छितं फलं, सुतरां- सम्यक्प्रकारेण, वितर- देहि, तावके- भवदीये, चरणकमले-पादपद्म, चिरं-बहुकालं यथा स्यात् तथा, मनस:- मम चित्तस्य, परमः- आत्यन्तिकः, लय:- अन्तर्भावः, भवतु- जायताम् । तव चरणकमले लीनमनसो मम सर्वदुःखनिवृत्तिः समीहितप्राप्तिश्च सुतरां भविष्यत्येवेति भावः। 'स्व[1]म[1]सि[1], श[1][i][s], प्र[1]सी[s]द[1], ज[1]गत्[5][1] ते[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-२०८ ॥
न्सौ तौ गो विद्य न्मालिका ॥२०॥ नसततगाः । यथा- घनतमसि नष्टान् द्रष्टुमत्र क्षणे, निखिलपथिकान संहारबुद्धघा ध्र वम् । बत परिगृहीताः प्रावृषा दीपिकाः, स्फुरितरुचिविद्युन्मालिकाव्याजतः ॥ २०६.१॥