SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २०६-२०७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १८५ चित्रवर्मणि । कटु कणन्ती लुठति शृङ्खला पदद्वये न कान्तानुशयमञ्जुभाषिणी ॥ २०६.१ ॥ त्रयोदशं प्रकारमाह- ज्तौ स्जौ गो मञ्जुभाषिणोति । विवृणोतिजतसजगाः इति- जगण-तगणी सगण-जगणी गुरुश्च Isi.ssI.S.Is1.5.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् मजुभाषिणीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- नरेन्द्रेति- हे नरेन्द्र !- राजन् !, त्वयिभवति, रुष्टे- क्रुद्धे सति, भूभुजाम्- अन्यनृपाणाम्, मतिः- बुद्धिः, नवे- सद्य: समुत्पाटिते, पृषञ्चर्मणि- मृगचर्मणि भवति, [ व्रतग्रहणेच्छेति भावः ] चित्रवर्मणि-विचित्रे कवचे न, तथा पदद्वये- चरणयुगले, कटु- श्रतिकठिनं यथा स्यात् तथा, क्वणन्ती- शब्दं कुर्वाणा, शृङ्खला- वेणी, लुठति- पतति, अनुशयमजुभाषिणी- पश्चात्तापेन मधुरं जलपन्ती कान्ता न लुठति । त्वयि रुष्टे रिपवो मृगचर्म-परिधाना भवन्ति, कवचं जहति, तत्पदयोश्च शङ्खला पततिबद्धा भवन्ति, अनुनयवचना कान्ता न पततीत्यर्थः । 'न[][s]न्द्र[1], रु[5]टे[s], त्व[1]यि[I], भू[s] [1]जां[s], म[1]तिः[s]' इति लक्षणसमन्वयः ॥अ० २, सू०-२०६ ॥ न्सौ रौ गश्चन्द्रलेखा ॥२०७॥ नसररगाः। यथा- सुभग ! सुखवं मोहजालं जनानां, हृदयहरणं बन्धनं लोचनानाम् । सुललितवपुः सा सखे ! पीयते ते, विरहतमसा चन्द्रलेखेव तन्वी ॥ २०७.१॥ चतुर्दशं प्रभेदमाह- न्सौ रौ गश्चन्द्रलेखेति । विवृणोति- नसररगाः इति- नगणः सगणो रगणद्वयं गुरुश्च '.s.sis.sis.' इतीदृशैरक्षरः कृताः पादा यस्य तत् चन्द्रलेखानामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरतियथा- सुभगेति- अत्र सुभगसुखदमिति समस्तः पाठो दृश्यते, किन्तु सुभगेति सम्बोधनपदं पृथगेव स्वीक्रियते चेत् अर्थयोजनायां सामञ्जस्यमधिकं भवतीति तथैव स्वीकृत्य व्याख्यायते । हे सुभग !- सौभाग्यशालिन् !, जनानां सुखदं मोहजालं- सुखकरं मोहबन्धनं, हृदयहरणं- चेतोवशीकरणम्, लोचनानांनेत्राणां, बन्धनम्- आकर्षकं, सुललितवपु:- सुन्दरशरीरा, सा तन्वी- पूर्व
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy