________________
१८४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २०५-२०६.] चन्द्रिणीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- धराभारमिति- बाहुदण्डे- भुजोपरि, धराभारं- पृथ्वीभरं, लीलया- अनायासेन, बिभ्रत्- धारयन्, श्रीमान्- लक्ष्मीपात्रम्, अजित:- बलवान्, एष- वर्ण्यमानः, क्षोणीनाथः- पृथ्वीपतिः, जयति- सर्वोत्कर्षेण वर्तते । भुजङ्गीभिः- नागीभिः, गीतैः- गानविषयीकृतः, प्रोहाम:- उत्कट:, यद्यशोभि:- यत्कीतिभिः, नागभूमि:- पातालं, चन्द्रिणी- चन्द्रयुक्ता बभूव । आकाशे चन्द्र इति प्रसिद्धिः परं त्वद्यशोगानस्तत्रापि चन्द्रवत् प्रकाशस्य सत्त्वेन चन्द्रिणीव नागभूमिर्जातेति भावः । 'धराभारं बिभ्रत्' इत्येवं षड्भिर्यतिः सर्वत्र पादेषु । ध[I]रा[s]भा[s] [5]बि[5]भ्र[5]ल्ली [s]ल[I]या[s], बा[s]हु[s]ण्डे[5]' इति लक्षणसमन्वयः । अ० २, सू०-२०४ ॥
नौ ? गश्चन्द्रिका ॥२०५॥ ननरयगाः । यथा-निखिलकुवलयप्रपञ्चितानन्दा, परिणतशरकाण्डपाण्डुरच्छाया । इह जगति चुलुक्यचन्द्र ! निस्तन्द्रा, प्रसरति तव कीर्तिचन्द्रिका नित्यम् ॥ २०५.१ ॥
लक्षितेषु द्वादशं प्रकारमाह- नौ यौँ गश्चन्द्रिकेति । विवृणोति- ननरयगा इति-नगणद्वयं रगण-यगणो गुरुश्च '.m.sis.Iss.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् चन्द्रिकानामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरतियथा- निखिलेति- हे चुलुक्यचन्द्र !- चुलुक्यवंशोद्यततक !, निखिलकुवल. यप्रपञ्चितानन्दा- निखिले- सम्पूर्णे, कुवलये- पृथ्वीमण्डले, चन्द्रविकाशिकमले च, प्रपञ्चितो-विस्तृत आनन्दो यया सा, परिणत- शरकाण्डपाण्डुरच्छाया- परिणतशरकाण्डवत्- पक्वशरयष्टिवत्, पाण्डुरा- श्वेता, छायाकान्तिर्यस्याः सा, निस्तन्द्रा- अमन्दा, सोल्लासा च, तव- भवतः, कीर्तिचन्द्रिका- प्रशस्तिकौमुदी, इह जगति- अस्मिन् संसारे, नित्यं- सततं, प्रसरति- परितो व्याप्नोति । नि[1]खि[1]ल[1] कु[1]व[1] ल[1]य[s]प्र[1]. प[s]ञ्चि[i]ता[s]न [5]न्दा[5]' इति लक्षणसमन्वयः। अ० २, सू०-२०५॥
ज्तौ स्जौ गो मञ्जुभाषिणी ॥२०६|| जतसजगाः। यथा- नरेन्द्र ! रुष्टे त्वयि महीभुजां मतिनवे पृषधर्मणि न