SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २०३-२०४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १८३ नौ नौ गः क्ष्मा ॥२०३॥ ननमरगाः । छरिति वर्तते । यथा- त्वदरिमृगशामावासप्रदानाद, भयमिव परमं राजन् ! धारयन्तः । प्रचलति भवतः सैन्ये दिग्जया, प्रतिदिशमगमन कम्पं मामृतोऽमी ॥ २०३.१ ॥ दशमं प्रकारमाह-नौ भ्रौ गः क्ष्मेति । विवृणोति- ननमरगाः । छरिति वर्तते इति- नगणद्वयं मगण-रगणो गुरुश्च ..sss.sis.s' इतीहशैवर्णेः कृताः पादा यस्य तव, सप्तभिश्च यतिर्यत्र तत् क्ष्मानामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- त्वदरीति-हे राजन् ! त्वदरिमृगदृशां- त्वच्छत्रुरमणीनाम्, आवासप्रदानात्-निवासस्थानदानात् हेतोः परमम्अत्यन्तं, भयं, धारयन्त:- बिभ्राणा इव प्रतिदिशं- सर्वासु दिक्षु अमी क्ष्माभृतः- पर्वताः, भवतः- तव, सैन्ये- बले, दिग्जयार्थ-दिशो विजेतुं, प्रस्थितेचलिते सति, कम्पं- चलनम्, अगमन्- प्रापुः । अन्योऽप्यपसधी राजानमागच्छन्तं वीक्ष्य भयात् कम्पते, एते च साक्षादेव राजापराधिनः राज्ञः शत्रूणां पक्षपातित्वादिति ससैन्यं राजानभागच्छन्तं विचार्य कम्पन्ते । अत्र दिग्विजययात्रार्थ त्वयि प्रस्थिते त्वदरिमृगदृशः पलाय्य पर्वतगृहासु निलीनाः, बलभरेण मेदिनी कम्पितेति तत्रस्थाः पर्वता अपि कम्पिता इत्येष वाच्योऽर्थो भङ्गयन्तरेण प्रतिपादितः । भयमिव धारयन्त इति कम्पस्य हेतुत्वेन कथितमिति हेतूस्प्रेक्षेयम् । त्वदरिमृगदृशामिति सप्तमेऽक्षरे यतिः। एवं सर्वत्र पादेऽवसेयम् । 'त्व[1]द[0]रि[0]म[]ग[1] [1]शा[s]मा[s]वा[s]स[1]दा[s]नात्[s]' इति लक्षणसमन्वयः । अ० २, सू०-२०३ ॥ रमौ रौ गश्चन्द्रिणी चैः ॥२०४॥ यमररगाः । चैरिति षड्भिर्यतिः । यथा- धरामारं बिभ्रल्लीलया बाहुदण्डे, जयत्येष श्रीमानूजितः क्षोणिनाथः । भुजंगीभिर्गातैरुज्ज्वलयद्यशोभिवं. भूव प्रोद्दामश्चन्द्रिणी नागभूमिः ॥ २०४.१ ॥ एकादशं प्रकारमाह- रमौ रौ गश्चन्द्रिणी चरिती । विवृणोति- यमररगाः । चैरिति षड्भिर्यतिरिति- यगण-मगणी रगणद्वयं गुरुश्च 'Iss.sss. SIS.Iss.' इतीदृशंरक्षरः कृताः पादा यस्य, षड्भिरक्षरेश्च यतिर्यत्र तत्
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy