SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २०२.] च्छन्द इत्यर्थः । उदाहरति- यथा- लक्ष्मीलोलागारमिति- लक्ष्मीलीलागारं- लक्ष्म्या:- सर्वसम्पदः, लीलागारं- क्रीडास्थानं, विनम्रपुरन्दरभ्राम्यदुभृङ्गश्रेणीकृतस्तवनध्वनि-विनने- प्रणामार्थ प्रणते, पुरन्दरे- इन्द्रे, [ सति तच्छिरोमाल्यानुगताः ] भ्राम्यन्ती- चलन्ती या, भृङ्गश्रेणी- मधुकरमाला, तया कृतः- विहितः, स्तवनध्वनिः- स्तुतिशब्दो यस्य तत्, नेत्रान्दनं- नेत्रयोःनयनयोः कृते, आनन्दं- सुखस्वरूपं, यद्वा नेत्राणि आनन्दयतीति नेत्रानन्दम्, ताम्राङ्गुलीदलबन्धुरं- ताम्रः- रक्तवर्णः, अङ्गुलीदलैः, बन्धुरम्- उन्नतानतम्, जिनेन्द्रपदाम्बुजं- जिनेन्द्रस्य पदाम्बुजं- चरणकमलं, श्रेयोमालाकल्याणपरम्परां, दद्यात्- वितरेत्, इत्याशी:प्रार्थना । 'ल[5]क्ष्मी[s]ली[s] ला[s]गा[s]रं[s], वि[1]न[5]म्र[1][i][5]न्द[I] र[s]' [ संयोगे गुरुत्वात् ] इति लक्षणसमन्वयः, चतुर्भियतेः सत्त्वात् ।। अ० २, सू० २०१॥ नौ तौ गः कुटिलगतिश्छः ॥२०२॥ छरिति सप्तभियंतिः । यथा- यदसरलतरभ्रूविभुग्नालका, कुटिलगतिरतिप्रौढवागवक्रिमा । तदियमघटि भोः कौतुकात् कामिनी, नियतमनृजुना केनचिद् वेषसा ।। २०२.१ ॥ नर्तकीत्यन्ये ।। २०२.१ ॥ लक्ष्यमाणक्रमेण नवमं प्रकारमाह- नौ तौ गः कुटिलगतिश्छरिति । छैरिति सप्तभिर्यतिरिति- नगणद्वयं तगणद्वयं च गुरुश्च ॥..51...' इतीहशर्वर्णैः कृताः पादा यस्य, सप्तभिश्च यतिर्यत्र तत् कुटिलगतिनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- यदसरलेति-यत्- यस्मात्, इयं- वर्ण्यमाना, कामिनी, असरलतरभ्रूः- कुटिलतरकटाक्षा, विभुग्नालकाभङ्गुरललाटकेशा, कुटिलगति:- वक्रगमना, अतिप्रोढवाग्विक्रमा- अतिप्रौढ:- परमोद्धतः, वाचो विक्रमः- वचनविन्यासो यस्यास्तादृशी [ अस्ति], तत्- तस्मात् कारणात्, अनृजुना- कुटिलेन, केनचित्- अज्ञातेन, वेधसाब्रह्मणा, कौतुकात्- लीलया, अघटि- निर्मिता भोः। नहि सर्वसामान्यसृष्टिकर्तुविधातुरीहशस्त्रीनिर्माणकर्तृत्वं सम्भवति, तस्मादन्य एव कश्चिद् विधाताऽस्या इति भावः । सर्वत्र पादे सप्तभिर्यतिः । 'य[1]द[1]स[I] र[1]ल[1]त[1]र[5]भ्रू[s]वि[1] भु[s] ग्ना[s]ल[1]का[s] इति लक्षणसंगतिः ॥ अ० २, सू०-२०२॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy