SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २००-२०१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १८१ आगमनात् पूर्वमेव, निदाद्य!- ग्रीष्मर्तों !, अपसर- दूरं गच्छ, इति जलपन्तःकथयन्तः, प्रातीहार्य- प्रतीहारस्य कर्म, कलयन्ति- धारयन्तीत्यर्थः । 'प्रा[s]वृट्[5]ल[5]क्ष्म्या[s], नि[s]श्चि[1]त[1] म[s]त्रा[s]व[1]त[1][5]न्त्या' इति लक्षणसंगतिश्चतुर्भिश्च यतिरिति ।। अ० २, सू०-१६६ ॥ नौ त्रौ गः क्षमा ॥२००॥ ननतरगाः । घेरिति वर्तते । यथा- अयि! जड!यतिबन्धो! किमङ्गशौचः, कचिदपि सुकृतं स्यान्मुधासि मूढः । यदिह च परलोके च साधु तत्त्वं, शृणु कुरु हृदयस्थां क्षमामजनम् ॥ २००.१॥ सप्तमं प्रभेदमाह- नौ त्रौ गः क्षमेति । विवृणोति- ननतरगाः। घेरिति वर्तते इति- नगणद्वयं तगण-रगणो गुरुश्च ॥...ssI.SIS.s.' इतीदृशैरक्षरैः कृताः पादा यस्य, परित्यनुवृत्त्या चतुभिश्च यतिर्यत्र तत् क्षमानामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- अयि जडेतिअयि ! इति कोमलामन्त्रणे, हे जडं !- मूर्ख !, यतिबन्धो !- क्षुद्रयते !, अङ्गशौचैः- शरीरशुद्धिभिः, क्वचिदपि- क्वापि काले देशे वा, सुकृतं- पुण्यं, स्यात्- भवेत्, किम् ? मुधाव्यर्थमेव, मूढः- मूर्खः, असि, यत् इह- अत्र लोके, परलोके च- परस्मिन् स्वर्गादिरूपे लोके- स्थाने च, साधु- कार्यसाधकं, तत्त्वं [स्यात् तत्], शृणु- आकर्णय, अजस्रं- सततं, क्षमा- शान्ति, हृदयस्थां अन्तःकरणप्रतिष्ठितां, कुरु- विधेहि । 'अ[1]यि[1], ज[1]ड[1], य[1]ति[1]ब[5]न्धो[s], कि[s]म[s] [[1]शो[5] चैः[s]' इति लक्षणसमन्वयः, श्चतुर्मिश्च यतिरिति ।। अ० २, सू०- २०० ॥ मौ जो गः श्रेयोमाला ॥२०१|| धरिति वर्तते । यथा- लक्ष्मीलीलाग रं विनम्रपुरंदरभ्राम्यद्भुङ्गश्रेणीकृतस्तवनध्वनि । नेत्रानन्दं ताम्राङ्गुलीदलबन्धुरं श्रेयोमालां दद्याज्जिनेन्द्रपदाम्बुजम् ॥ २०१.१॥ अष्टमं प्रभेदमाह- मौ जौ गः श्रेयोमालेति । सूत्रं पूरयति- घेरिति वर्तते इति । मगणद्वयं जगणद्वयं गुरुश्च 'sss.sss.11.15..' इतीहशरक्षरः कृताः पादा यस्य, चतुर्भिश्च यतिर्यत्र तत् श्रेयोमालानामकमतिजगतीजाति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy