________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० १६८ - १६६.] उभौ स्जो गो रुचिरा घेः ॥ १६८ ॥
जभसजगाः । धैरिति चतुभियंतिः । यथा - समुल्लसद्दशन मयूखचन्द्रिकातरङ्गिते तब वदनेन्दुमण्डले । सुलोचने कलयति लाञ्छनच्छवि, घनाञ्जनद्रवरुचिरालकावली ॥। १६८.१ ॥
१८०
पञ्चमं प्रभेदमाह- ज्भौ स्जौ गो रुचिरा घैरिति । विवृणोति - जभसजगा इति । धैरिति चतुर्भिर्यतिरिति- जगण-भगण- सगण जगणा गुरुश्च '151.511.115.151 . ' इतीदृशैर्वर्णैः कृताः पादा यस्य तत् चतुर्भिश्च वर्णैर्यं तिर्यत्र तत् रुचि रानामक मतिजगतीजातिच्छन्द इत्यर्थः । उदाहरतियथा - समुल्लसदिति - हे सुलोचने ! - सुनयने !, समुल्लसद्दशनमयूखचन्द्रिकातरङ्गिते - समुल्लसतां - प्रकाशमानानां दशनानां दन्तानां मयूखचन्द्रिकया - कान्तिकौमुद्या, चरङ्गिते - कृतप्रवाहे, तव - भवत्याः, वदनेन्दुमण्डलेमुखशशिबिम्बे, घनाञ्जनद्र वरुचिरा - गाढकञ्जलरससुन्दरा, अलकावली - केशमाला, लाञ्छनच्छवि- कलङ्कशोभां कलयति - धारयतीत्यर्थः । स [ 1 ]मु[s]ल्ल [1] सद्[S]द[1] श[1]न[1]म[1]यू[s] ख[1] [s]न्द्रि [ 1 ] का [s]' सर्वत्र पादे चतुर्भिर्यतिः, इति लक्षणसमन्वयः ॥ अ० २, सू० - १६८ ॥
तौ यसो गो मत्तमयूरम् ॥१६६॥
मतयसगाः । घंरिति वर्तते । यथा- प्रावृट्लक्ष्म्या निश्चितमत्रावतरन्त्याः, या कल्पितकोलाहलमुच्चैः । जल्पन्तोऽमी हन्त निदाघापसरेति, प्रातीहाय मत्तमयूराः कलयन्ति ॥ १६६.१ ॥
षष्ठं प्रभेदमाह - म्तौ सौ गो मत्तमयूरमिति । विवृणोति - मतयसगाः । धैरिति वर्तते इति- मगण-तगण यगण - सगणा गुरुश्च 'Sss.SSI. Iss. S.S.' इतीदृशैरक्षरैः कृताः पादा यस्य तत्, तथा पूर्वसूत्राद् वैरित्यस्यानुवृत्त्या चतुभिश्च यतियंत्र तत् मत्तमयूरनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- प्रावृट्लक्ष्म्या इति- संभूय- एकीभूय, उच्चैः- तारस्वरेण कल्पितकोलाहलं- कृतमहानादं यथा स्यात् तथा, अमी- दूरादु दृष्टिगोचराः, मत्तमयूरा:- उन्मत्तर्बहिणः, अत्र- भूतले, निश्चतं निर्णीतरूपेण, अवतरन्त्याः- आगच्छन्त्याः प्रावृटलक्ष्म्या :- वर्षर्त्तुशोभायाः, अग्रे
-