________________
[अ० २, सू० १६७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१७६ ब्रह्मणः, प्रतिपक्षः- प्रतिकूलाचारी, तस्य भावस्त्तया इव, दरिद्रजन:- अर्थहीनो लोकः, सदा- सर्वदा, कृतार्थक एव- कृतः- सम्पन्नः, अर्थ:- धनमभिलाश्च यस्य तादृश एव, अकारि- कृतः, अङ्गरुचिप्रतिषिद्धसहस्रकरः- अङ्गरुच्या- शरीरशोभया, प्रतिसिद्धः- तिरस्कृतः, सहस्रकर:- सूर्यश्चन्द्रश्च येन सः, स- प्रसिद्धः, भरतनृपः कस्य जनस्य, मुदं- हर्ष, न ददाति- अपि तु सर्वस्यापि ददात्येति भावः । विधिना 'अयं निश्चितं दरिद्रो भविता' इति भाले विलिख्योत्पादितस्य जनस्य कृतार्थतासम्पादनेन विधिप्रातिकूल्यमस्मिन् नृपे स्पष्टम्, स्वकान्त्या च सूर्याचन्द्रमसोरपि प्रतिनिधिरयं सर्वजनकरञ्जक इति भावः। 'ये[s] न[1], वि[1]धि[s]प्र[1]ति [1]प[s]क्ष[। त[1]ये[] व[i], स[1] दा[5]' इति लक्षणसमन्वयः ।। अ० २, सू०-१९६ ॥
म्नौ नौ गः प्रहर्षिणी गैः ॥१९७|| मनजरगाः । पैरिति त्रिभिर्यतिः । यथा- उत्प्रेवत्रिदशधनुश्छलेन वर्षा-, लक्ष्म्योद्यन्मणिरुचिचित्रतोरणस्रक् । पञ्चेषो पनजयोत्सवैकचिह्नमाबद्धा सपदि मनःप्रहषिणीयम् ॥ १६७.१ ॥
लक्षितक्रमेण चतुर्थप्रकारमाह- म्नौ नौ गः प्रहर्षिणी गैरिति । 'विवृणोति- मनजरगाः। गैरिति त्रिभिर्यतिरिति- मगण-नगण-जगण-रगणा गुरुश्च ‘sss...IsI.sis.s' इतीदृशैर्वर्णैः कृताः पादा यस्य तत् तथा, त्रिभिर्वगर्यतिश्च यत्र तत् प्रहर्षिणीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरतियथा-उत्प्रेङ्कदिति- वर्षालक्ष्म्या- वर्षर्तुशोभया, उत्प्रेडन्त्रिदशधनुश्छलेनउत्प्रेङ्खतः- उपरिचलतः, त्रिदशधनुष:- देवेन्द्र बाणासनस्य, छलेन- व्याजेन, आबद्धा- ग्रथिता, पञ्चेषोः- पञ्चबाणस्य कामस्य, भुवनजयोत्सवैकचिह्नभुवनजयः- सर्वलोकविजय एव उत्सव:- आमोदावसरः, तस्य एकं- प्रधानं, चिह्न लक्षणम्, इयं- प्रत्यक्षदृश्यमाना, मणिचित्रतोरणस्रक- मणिभिःनानारत्नः, चित्रा- अनेकवर्णा, तोरणस्रक- द्वारमाला, साद- शीघ्र, मन:प्रहर्षिणी- चेतोमोदजननीत्यर्थः । अत्र प्रतिपादं प्रभाक्षरत्रये यतिः । 'उत्[5]प्रे[5]ङ्ख[s]त्रि[1]द[1]श[1]ध[1]नुश्[5] छ[1]ले [s]न[1], व[5]र्षा[s] इति लक्षणसमन्वयः ।। अ० २, सू०-१६७ ॥