________________
[अ० २, सू० १६४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१७७
पृथ्वीं, बिभ्रति - धारयति सति स पुराणकोल:- पुरातनवराहः [ आदिवराहः ], धरणीधरणप्रयासं- पृथ्वीभारोद्वहनपरिश्रमं विहाय - त्यक्त्वा, पयोधिपुलिने - समुद्रतीरे, चिराय - बहुकालं यावत् यथेच्छं - कामानुकुलं, रमतां - कीडामनुभवतु, तत्कार्यस्य त्वयैव कृतत्वेन स निश्चिन्त इति भावः । 'चु[']लु[s]क्य[ । ]नृप[1]प[1]ते[s], त्व[1]यि, [1] बि[5]भ्र [1]ति [s], क्षां[s]' इति लक्षणसंगतिः ।। अ० २, सू० - १९३ ॥
"
अतिजगत्यां नतिगा उर्वशी ॥ १६४ ॥
नगण: तगणत्रयं गुरुश्च । यथा- अजननिर्योषितामस्तु वंशे सतां, मलिनिमानं स्वशीलेन यास्तन्वते । भगवतो वासुदेवात् प्रसूतापि हि, त्रिदशवेश्यात्वमङ्गीचकारोर्वशी ॥। १६४.१ ।।
इत्थं जगतीजातेः प्रसिद्धा भेदा लक्षितास्ते च षट्त्रिंशत्, तथा च द्वादशाक्षरपादस्य षट्त्रिंशदिति सूचितम् ।। १२ । ३६ ।। इति । प्रस्ता रगत्यातु ४०६६ भेदा भवन्ति । तथा च
"सहस्राण्यथ, चत्वारि नवतिश्च षडुत्तरा ।
जगत्यां सर्ववणानां वृत्तानामिह सर्वशः || ”
इति भरतनाट्यशास्त्रे १५ शेऽध्याये ५८ ।। इति जगती ॥
अतिजगतीजाति ॥ अथ अतिजगती । वर्णयितुमुपक्रमते - अतिजगत्यां नतिगा उर्वशितीति । नतिगा इत्यस्यार्थमाह- नगणः, तगणत्रयं, गुरुश्चेति, तथा च ' ।।1.55 1.551. SSI.S' इत्येवं त्रयोदशभिरक्षरः कृताः पादा यस्य तत् उर्वशीनामकमतिजगतीजातिच्छन्द इत्यर्थः । उदाहरति- अजननिरितिसतां - सज्जनानां, वंशे - कुले, योषितां - स्त्रीणाम्, अजननि:- अनुत्पत्तिः, अस्तु - भवतु, याः, योषितः स्वशीलेन - स्वचरितेन [ कुले ] मलिनिमानंकलङ्कं तन्वते - विस्तारयन्ति । हि यतः, भगवतः - सर्वैश्वर्यं निघेः, वासुदेवात्- विष्णोः, प्रसूता - लब्धोत्पत्तिः, अपि, उर्वशी - स्वनामख्याता अप्सराः, त्रिदशवेश्यात्वं - देववाराङ्गनात्वम् अङ्गीचकार - स्वीकृतवती । 'उर्वशी हि वासुदेवस्य उरोजाता' इति श्रुतिः, यदि च तादृशोच्च कुलप्रसुतायास्तस्या इत्थं शीलं तर्हि सामान्यकुलजानां का कथेति कवेरभिप्रायः । ' अ [1]ज [1] न [1] नि