SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १७६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १६२-१९३.] थि[1]क! [s], प्र[1]या[s]हि[s], त्व[1]र[1]ये [s]व[1], नो[5] चेत्[s]' इति लक्षणसमन्वयः । अ० २, सू०-१६१ ॥ निसौ हीः ॥१६२॥ निरिति नगणत्रयं सश्च । यथा- सितमहसि धवलयति धरां, सुभग ! कुरु यदिह समुचितम् । तव विशदगुणहृतहृदया, ह्रियमपि परिहरति सुतनुः ॥ १९२.१ ॥ लक्षितेषु पञ्चत्रिशं प्रकारमाह- निसौ होरिति । व्याख्याति- निरिति नगणत्रयं सश्चेति- नगणत्रयं सगणश्च ॥॥॥॥' इतीदृशैरक्षरैः कृताः पादा यस्य तत् ह्रीनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथासितमहसि इति- हे सुभग !- सौभाग्यशालिन् ! सितमहसि- श्वेतांशी चन्द्रे, धरा- पृथ्वीं, धवलयति- उजवलयति सति, इह- समये स्थाने च, यत् समुचितं- तव तस्याश्चयोग्यं, तत् कुरु- विधेहि, [यतः] तव- भवतो गुणहृतहृदया- गुणैः- दाक्षिण्यदिभिः, हृतं- वशीकृतं, हृदयं यस्याः सा, सुतनु:शोभनाङ्गी सा ह्रियमपि- परमधनरूपां लजामपि, परिहरति- त्यजति, किमुतान्यदिति शेषः । अयमाशयः- इयं शुभाङ्गी लज्जामपि परिहृत्य तद्गुणवशीकृता कौमुदीसनाथेऽत्र समये ईदृशे स्थाने चागतेति त्वमपि तत्सहशमाचरेति । 'सि[]त[1]म[1]ह[1]सि[1], ध[1] व[I]ल[1]य[1]ति[1], ध[1] रा[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१६२ ॥ ज्सौ स्यौ कोलः ॥१६३॥ जससयाः । यथा- चुलुक्यनृपते ! त्वयि बिभ्रति क्षमा, विहाय धरणीधरणप्रयासम् । पयोधिपुलिने रमतां यथेच्छं, स संप्रति चिराय पुराणकोलः ॥ १९३.१ ॥ १२॥३६ ॥ लक्षितक्रमेण षट्त्रिंशं प्रकारमाह- ज्सोस्यो कोल इति । जसौ स्याविति । विवृणोति- जससयाः इति:- जगण-सगण-सगण-यगणाः '..sss.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् कोलनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- चुलुक्यनृपते ! इति, हे चुलुक्यनृपते ! त्वयि- भवति, मां को
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy