________________
[अ० २, सू० १६१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते मिति- सन्तोषधनानां- सन्तोष:- आत्मतृप्तिः, स एव धनं येषां तेषां कृते, समृद्धि:- हिरण्यधान्यादिसम्पतिः, का नाम- किमर्थसाधिका?, चारित्रसुधातो- सुचरितामृतलाभे सति, कामपियासां-विषयाभिलाषां, धिक्- सा निन्दनीयेत्यर्थः । निर्बीजसमाधी- निर्विल्पकध्याने सति, सुरसौख्यं- देवानामपि सौख्यम्- आस्ताम्, न तदभिलाष इति भावः, यदि कण्ठे जैनी-जिनोपदिष्टा, वाक् अस्ति तर्हि, मणिमाला- रत्नस्रक्, कि- कस्मै प्रयोजनायेति भावः । अत्र सन्तोषधनानां; का नाम समृद्धिः चारित्रसुधाप्ती; धिक् कामपिपासाम्, 'निर्वीजसमाधावास्तां सुरसौख्यं जनी यदि कण्ठे वाक्, किं मणिमाला ॥' इत्येवं विरामचिह्नस्थाने यतिः कार्या, एतावन्मात्रेण च पूर्वलक्षिताद् विशेषः ॥ अ० २, सू०-१६० ॥
स्यौ स्यौ केकिरवम् ॥१६॥ सयसयाः । यथा- पथिक ! प्रयाहि त्वरयव नो चेत्, पुरतः समुजम्मिणि मेघकाले। भवतो द्विजिह्वस्य हरिष्यतेऽसून, समदध्वनत्केकिरवः प्रचण्ड: ॥ १६१.१॥
चतुस्त्रिशं प्रकारमाह- स्यौ स्यौ केकिरवमिति । स्यौ स्याविति व्याख्याति- सयसयाः इति- संगण-यगण-सगण-यगणाः ॥5.15.15.s' इतीदशैरक्षरः कृताः पादा यत्र तत् केकिरवं नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-पथिक ! प्रयाहीति- हे पथिक !- अध्वनीन !, त्वरयैव- शीघ्रमेव, गृहं गच्छ, नो- न गमिष्यसि, चेत्- यदि [तर्हि] पुरत:अने, मेघकाले- वर्षौ, समुज्जृम्भिणि- सम्यग् वृद्धि गते सति, प्रचण्ड:भयङ्करः, समदध्वनत केकिरवः-समदः- मत्तः, अत एव ध्वनन्-शब्दं कुर्वाणः, यः केकी- मयूरः, तस्य रव:- शब्दः, द्विजिह्वस्य- सर्पतुल्यस्य द्वे मिथ्यासत्यभाषिणी, जिह्व यस्येति व्युत्पत्त्या, आगमनसमयमसत्यं कथितवतस्तवाऽपि सर्पवत् द्विजिह्वत्वमिति भावः, असून्- प्राणान्, हरिष्यते- नाशयिष्यति । केकिरवं श्रुत्वा सर्पा अपि भीता भवन्ति त्वमपि तादृश इति वर्षातॊः पूर्वमेव गृहं याहि यदि नो चेत् केकिरवं श्रुत्वा त्वं न जीविष्यसीति भावः । 'प[1]