________________
१७४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १८६-१६०.] [1]ला[s]' इति लक्षणसमन्वयः। नामान्तरमाह- वसन्तेति कश्चिदिति ।। अ० २, सू०-१८८ ॥
त्यौ त्यो पुष्पविचित्रा ॥१८६।। तयतयाः। यथा- भ्राम्यभ्रमरव्याकीर्णोद्धरगन्धा, मन्दारवती सन्तानप्रसवाव्या । नाभेयजिनस्योद्दामा सुरनाथर, विष्ठचा रचिता पूजा पुष्पविचित्रा ॥१८६.१॥
लक्षितक्रमेण द्वात्रिंशं प्रभेदमाह-त्यौ त्यो पुष्पविचित्रेति। त्यो त्याविति व्याख्याति- तयतया: इति- तगण-यगण-तगण-यगणाः 'sI.Iss.sI.Iss' इतीदृशैरक्षरः कृताः पादा यस्य तत् कुसुमविचित्रानामकं जगतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- भ्राम्यभ्रमरेति, सुरनाथैः- देवेशः, भ्राम्य
भ्रमरव्याकीर्णोद्धरगन्धा- भ्राम्यद्भिः- इतस्ततश्चलद्भिः, भ्रमरैः- रोलम्बः, व्याकीर्णः- सर्वतः प्रसारितः, उद्धरः- उत्कटो गन्धो यस्याः सा, मन्दारवतीदेवतरुविशेषपुष्पयुक्ता, सन्तानप्रसवाढ्या-सन्तानस्य-देवतरुविशेषस्य, प्रसवैःपुष्पैः, पल्लवैश्च, आन्या- पूर्णा, उद्दामा- सूत्ररहिता निबन्धा वा, कुसुमविचित्रा- कुसुमैः- पुष्पैः, विचित्रा- विलक्षणा, नाभेयजिनस्य-आदिनाथतीर्थकरस्य, पूजा, दिष्टया- भाग्येन, रचिता- कृता । 'भ्रा[s]भ्य[s] [i]म[i] र[5]व्या[5]को[s]l[5][]र[1]ग[s]न्धा' इति लक्षणसमन्वयः ॥ अ० २, सू०-१८६॥
सा मणिमाला चैः ॥१०॥ सा- पुष्पविचित्रा, चैः- षड्भिर्यतिश्चेन्मणिमाला । यथा- सन्तोषधनानां का नाम समृद्धि-चारित्रसुधाप्ती धिक्कामपिपासाम् । निर्बोजसमाधावास्तां सुरसौख्यं, जैनी यदि कण्ठे वाक् कि मणिमाला॥१६०.१॥
त्रयस्त्रिशं प्रकारमाह-सा मणिमाला चैरिति । व्याख्याति-सा-पुष्पविचित्रा चैः-षड्भिर्यतिश्चेन्मणिमाला। पुष्पविचित्रा पूर्वलक्षिता सा यथोक्तगणरेव विन्यस्ता यदि प्रतिपादं षष्ठेऽक्षरे यत्या युता स्यात् तहि मणिमालानामकं जगतीजातिच्छन्द इत्यर्थः। उदाहरति- यथा-सन्तोषधनाना