SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १८८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १७३ लक्षितक्रमेण त्रिशं प्रभेदमाह- नौ र्यो कामदत्तेति । 'नौ र्यो' इति पदद्वयं व्याख्याति- न-न-र-याः इति- नगणद्वयं रगण-यगणो 'm.m.sis. Iss' इतीदृशैरक्षरः कृताः पादा यस्य तत् कामदत्तानामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- निकृतिकलुषयेति, निकृतिकलुषया- अनादरदृष्टिदूषितया, धिया- बुद्धया, वितीणं- दत्तं, बहुतरमपि- अत्यधिकमपि, निष्फलत्वं- कालान्तरभाविफलशून्यत्वम्, एति-प्राप्नोति, कामदत्ता- कामस्वेच्छानुसारं, सम्प्रदानप्रीतिपूर्वं दत्ता- वितीर्णा, कणिकापि- क्षुद्रांशोऽपि, इह- संसारे, अमृतकारणं- मोक्षप्राप्तिसाधनं, सुकृतं- पुण्यं, प्रसूते- जनयतीत्यर्थः । कस्मैचिदनादरेणाधिकमपि दत्तं दातुः कृते न सफलं, संपूज्य दत्तं स्वल्पमपि बहुफलमिति भावः । 'नि[1] कृ[1]ति [1]क[1]लु[1]ष[1]या[s], धि[1]या[s], वि[s]ती[s]][s]' इति लक्षणसमन्वयः ।। अ० २, सू०-१८७॥ नो रिर्मेघावली ॥१८॥ रिरिति रगणत्रयम् । यथा- स्तनितघोरघोषाट्टहासाकुला, तरलतारविषुज्छटालोचना। विरहिणीजनप्राणघातोद्यता, नमसि राक्षसीयं न मेघावली ॥१८८.१॥ वसन्तेति कश्चित् ॥ १८८.१ ॥ लक्षितक्रमेण एकत्रिंशं प्रकारमाह-नो रिर्मेघावलीति । रिरिति रगणत्रयमिति- “समानेनकादि:" [ १.४ ] इति नियमात्, इकारस्य त्रित्वाबोधकत्वादिति भावः । तथा च नगणः रगणत्रयं च ||.SIS.SIS.SI.' इतीदृशैरक्षरः कृताः पादा यस्य तत् मेघावलीनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति-, यथा- स्तनिघोरेति, स्तनितघोरघोषाट्टहासाकुला- स्तनितस्यगर्जितस्य, घोरः, घोष एव अट्टहास:- उच्चैर्हास्यं, तेन आकुला, तरलतारविधुच्छट्टालोचना- तरला- चञ्चला, तारा- कनीनिका, सैव विधुच्छट्टा- सौदामिनीमाला, लोचनं यस्याः सा, विरहिणीजनप्राणघातोद्यता- विरहिणीजनानां- पतिवियुक्तानां कामिनीनां, प्राणघाताय, उद्यता- तत्परा, नभसिआकाशे, इयं- दृश्यमाना, मेघाबली न- मेघमाला न, किन्तु राक्षसी । उभयोविशेषणसाम्येन विरहिणीप्राणघातकत्वेन राक्षसीत्वमेवास्यां युज्यत इति इति भावः । 'स्त[1]नि[1]त[1]घो[s] र[1]घो[5]षा[5][i] हा[s]सा[5] कु
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy