SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १८६ - १८७.] कुमुद्वती [ त्वया सह बद्धभावा] वर्तत इति भावः । चन्द्रनलिन्याद्यन्योक्त्या काचिद् दूती नायकस्य अन्यासङ्गपरिहारपूर्वकं स्वपक्षनायिकायां प्रसक्ति प्रस्तौति । 'बो [s]धि] [1] ता [s]पि [ 1 ], ₹ [s] म्यैः [s], क [ 1 ]र[+]नि [ 1 ]क [ 1 ] : [s], ते [s] ' इति लक्षणसमन्वयः ॥ अ० २, सू० - १८५ ॥ तौ सौ ललना ङः ॥ १८६॥ मतनसाः । रिति पञ्चभिर्यतिः । यथा- रम्यनितम्बां नवतनुलतिकां, संसृततृष्णां गजगतिरुचिराम् । विन्ध्यधरित्रीं तव नृप ! रिपवः, संप्रति मेजुनं तु निजललनाम् ॥ १८६.१ ।। लक्षितक्रमेण ऊनविशं प्रभेदमाह - भ्तौ न्सौ ललना ङेरिति । अर्थमाहमतनसाः । ङेरिति पञ्चभिर्यतिरिति- भगण-तगण-नगण-सगणाः 'SII. SSI. IIIIIS' इतीदृशैरक्षरैः कृताः पादा यस्य तत् ललनानामकं जगतीजातिछन्दः, यत्र च पञ्चभिर्यतिरित्यर्थः । उदाहरति- यथा- रम्यनितम्बामिति - हे नृप ! सम्प्रति त्वया आक्रमणे कृते सति तव रिपव:- शत्रवः, रम्यनितम्बां - रम्य:- रमणयोग्यः, नितम्ब:- कटिपश्चाद्भागः, पक्षे प्रान्तभागो यस्याः, तां नवतनुलतिकां - नवा - नूतना, तनुलता- देहवल्ली, यस्यास्तां, पक्षान्तरे - नवा तनुः - कोमला लतावल्ली यस्यां ताम्, संभृततृष्णां- संभृतापोषिता, तृष्णा - प्रियप्राप्त्यभिलाषा, पक्षान्तरे दुर्लङ्घयगहन प्रदेशतया पिपासा च यस्यां तां गजगतिरुचिरां- गजस्येव गतिः- पादन्यास:, तेन रुचिरांशोभनां, पक्षान्तरे - गजानां गतिः- प्रचारस्तेन रुचिरां, विन्ध्यधरित्रीं - विन्ध्यपर्वतभूमि, [ पक्षान्तरेण व्याख्यातविशेषणां ], भेजुः शिश्रियः, निजललनांस्वकान्तां [ प्रथमपक्षतया व्याख्यातविशेषणैर्युक्ताम् ] न भेजुः । तव भयेन पलायितास्ते स्वप्रियाविशेषणोपलक्षिततया विन्ध्यभूमिमेव भेजुः प्रियां च स्वपुर एव परितत्यजुरिति भाव: । 'र [s] म्य [ 1 ]नि [] त [s]म्बां [s], न [1]व[1]त [1]नु[1]ल [ 1 ]ति [ ।] कां [s] इति लक्षणसमन्वयः ॥ अ० २, सू० - १८६ ॥ नौ यौ कामदत्ता ॥ १८७॥ ननरयाः । यथा- निकृतिकलुषया घिया वितीर्ण, बहुतरमपि निष्फलत्वमेति । सुकृतममृतकारणं प्रसूते, ध्रुवमिह कणिकापि कामदत्ता ।। १८७.१ ।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy