SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १७१ [अ० २, सू० १८४-१८५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ज्रज्रा विभावरी ॥१८४॥ जरजराः । यथा- पयोनिधेरवाप्य तोयसंपदं, मवान् बलाहकेन पश्य यत् कृतम् । य एष तस्य हर्षकारणं सुतः, स एव संवृतो विभावरीपतिः ॥ १८४.१ ॥ वसन्तचत्वरमित्यन्ये ।। १८४.१ ॥ लक्षितक्रमेण सप्तविंशं प्रकारमाह- बज्रा विभावरीति । वज्राविति विवृणोति-जरजराः इति- जगण-रगण-जगण-रगणाः 'IsI.SIS.IsI.sis' इतीदृशैरक्षरः कृताः पादा यस्य तत् विभावरीनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- पयोनिधेरिति-पयोनिधे:- समुद्रात्, तोयसम्पदं- जलसम्पत्तिम्, अवाप्य- प्राप्य, बलाहकेन- मेघेन, यत् कृतम्- आर्चारतं [ तत् ] पश्य- अवलोकय, [ किं तदित्याह-] तस्य समुद्रस्य हर्षकारणं- सुखसाधनभूतः [ जलवृद्धि कर: ], सुतः-पुत्रः, स एव विभावरीपतिः- निशानाथश्चन्द्रः, आच्छादितः। पयोनिधिमेघान्योक्त्या कश्चित्स्वोपजीव्यस्य प्रतिकूलाचारी वर्ण्यते। प[1]यो[s]नि[1] घे[5]र[1]वा[s]प्य[I],तो[s] य[1] सं[5]प[1]दं[s' इति लक्षणसमन्वयः । नामान्तरमाह-वसन्तचत्वरमित्यन्ये इति ।। अ० २, सू०-१८४ ॥ र्यन्याः कुमुदिनी ॥१८५॥ रयनयाः । यथा- बोषितापि रम्यः करनिकरस्ते, हासलेशमासादयति न यस्मात् । मुञ्च मुञ्च तस्मादिह नलिनीयं, रोहिणीपते ! हन्त कुमुदिनीतः ।। १८५.१॥ लक्षितेष्वष्टाविशं प्रकारमाह-रयन्याः कुमुदिनीति । रयन्या इति विवृ. णोति- रयनयाः इति- रगण-यगण-नगण-यगणाः 'IS.ISS.I.Iss.' इत्येवंप्रकारैर्वणः कृताः पादा यस्य तत् कुमुदिनीनामक जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-बोधितापीति- हे रोहिणीपते !- चन्द्र !, इयं नलिनीकमलिनी, ते- तव, रम्यैः- मनोहरः, करनिकर:- किरणसम्हैः, बोधिताकृतप्रबोधा अपि, यस्मात्- यतो हेतोः, हासलेशमपि- विकासमात्रमपि, [कापुनरत्यानुकूलाचरणस्य प्रत्याशा] न आसादयति तस्मात् [इमां] मुश्च मुश्चपरिहर परिहर, तहिक मे गतिरिति चेत् ? इत:- अस्मिन् प्रदेशे, कुमुदिनी
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy