SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १७० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १८३.] स्थितेऽपि सप्तभिर्वर्णर्यतिनियममात्रस्याश्रयणात् प्रमुदितवदनैव प्रभेत्याख्यायत इत्यर्थः । उदाहरति- यथा- प्रचुरविभवतेति- प्रचुरं- प्रभूतं, विभवंवित्तं यस्य सः प्रचुरविभवः, तस्य भावस्त्तत्ता, नवं- नूतनं, यौवनं- तारुण्यं, विमललवणिमा- निर्मलं लावण्यं, समग्रा:- पूर्णाः, कला:- शिल्पादिविद्याः, हे सखे !- मित्र !, सकलमपि तत् एतत् मुधा- मिथ्या, यदि चेत् हेमप्रभाकनककान्तिः, मृगनयना- हरिणनेत्रा, अङ्गना न [ अस्ति ], विभवादेस्तदैव साफल्यं यदि तेन सह सुन्दरी कान्ताऽपि भवेत्, न चेत् साऽस्ति सर्वमेव तद् विफलमिति भावः । 'प्र[1][]] [1] वि[1] भ[1][i]ता[s], न[D][s], यौ. [s] [1] नं [s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१८२॥ न्जज्यास्तामरसम ॥१८३॥ नजजयाः। यथा- सततविकाससमुधुरशोभं, सकलकलङ्ककलापरिमुक्तम् । तव वदनं मदिराक्षि ! किमेतद्, भवति न तामरसं न च चन्द्रः॥१८३.१॥ कमलविलासिनीत्यन्ये ॥ १८३.१॥ लक्षितक्रमेण षड्विशं प्रकारमाह-न्जज्यास्तामरसमिति । व्याख्यातिनजजया इति- नगण-जगण-जगण यगणा: '.si.si.ss' इतीदृशैर्वणः कृताः पादा यस्य तत् तामरसं नाम जगतीजातिच्छन्द इत्यर्थः। उदाहरतियथा- सततविकासेति- हे मदिराक्षि !- मदिरे- मदशीले अक्षिणी- नेत्रे यस्यास्तत्सम्बोधने हे मदिराक्षि !, सततविकाससमुधुरशोभं- सततं- रात्रि. न्दिवं यो विकास:- प्रफुल्लता, तेन समुधुरा- उत्कटा शोभा यस्य तादृशं, तथा सकलकलङ्ककलापरिमुक्तं- सकलं- सम्पूर्ण, कलङ्ककलाभि:- लाञ्छनांशैः, परिमुक्तं- शून्यम्, एतत् तव वदनं किम् ?- कस्मिन् वस्तुनि अत्तर्भूतम्, तामरसं- पद्मं न भवति, चन्द्रश्च न भवति, पद्मस्य दिवैव विकासः, तवमुखस्य रात्रिन्दिवमिति पद्माद् भेदः, चन्द्रो न सर्वदा पूर्णः, नवा कलङ्कपरिमुक्त इत्येतयो स्यान्तर्भावः, वस्त्वन्तरं चैतत्सदृशं दृष्टमेव नेति किमेतदिति शङ्कोत्पन्नेति भावः । 'स[i][i][1]वि[1]का[s]स[5]स[1] मु[s][][1]शो[s]भं[5]' इति लक्षणसमन्वयः। अस्य नामान्तरमपीत्याह-कमलविलासिनीत्यन्ये इति ॥ अ० २, सू०-१८३ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy